________________
उपदेश
॥६२॥
अज्ञानिभिर्द्रव्यरुजां क्षितिः कृता, कैरष्ट नो भावरुजोऽन्तिके घृताः । हष्ठितं कर्माष्टकस्य प्रकृतेः पुरा कृतम् ॥१८८॥ घोरक्रिया चात्र कृता निरीक्ष्यते, न्यादः कषायः कटुको विलोक्यते । स्नेहापहारः स्फुटसौख्यकारकः, सितोपलास्वादविधिविकारकः ।। १८९ ॥
एवं यदा भावरुजां विनाशे, सामर्थ्यमास्ते भवतोः सकाशे । निवेद्यतां तहि तदेव मह्यमाचर्यते यत्स्वघिया प्रसह्य ।। १९० ।। इत्युक्तिमाकर्ण्य मुनेः पुरस्ती, जाती सुरौ द्वौ प्रकटी प्रशस्तो । प्रजल्पतवेन्द्रकृतां प्रशंसां, तवासहिष्णू विरचय्य खिसाम् १९१ तावेव चावां मरुतौ पुरागतौ, स्वर्गाद्विनिर्गत्य पुनः समागतौ। त्वदीयसत्त्वाधिकता परीक्षया, न मूर्खता कि प्रकटी कृते या १९२ मेरुं प्रहर्तुं यदिहोद्यतानां भज्यन्त एते रदना गजानाम् । गुणस्तुति ते रचयनवीनः स एक एवास्ति शुचिः शचीनः ॥ १९३॥ आव कृतार्थी तत्र दर्शनेन, स्याद्वा किमन्येन विमर्शनेन । नमोऽस्तु तुभ्यं मुनिपुंगवाय श्रयःपुरी मार्गशुभाध्वगाय।।१९४।। संसारकाराक्षयकारकाय, स्वचक्रिलक्ष्मीत्यजनोत्सुकाय । विनिर्मितस्वात्महितव्रताय, स्वस्त्यस्तु तुभ्यं मुनिशेखराय ।। १९५॥ एक संस्थापिच, यस्य स्तुतिस्ते हरिणापि चक्रे । तथापि धत्से न मनाक् प्रकर्षं धत्से मदाद्री पविवत्त्वमर्थम् । १९६ ॥ लब्धिवनेकास्वपि संगतासु, कर्त्ता चिकित्सां न हि रुग्लतासु ।
1
योगी त्वमेवासि मनीषिमान्यस्त्वया सहक्षो मुनिरस्ति नान्यः ॥ १९७ ॥
समग्र वैराग्यनिधे महर्षे, कुरु प्रसादं विदितात्र वर्षे अज्ञानता यत्तु तवापराद्धं, क्षमस्व सर्व तदथो विराढम् ।।१९८ ।।
ममनिका
॥६२॥