________________
।।५७॥
महेन्द्रसहिंने पुनः सुशीतैः, प्रोक्तं वचोभिः स्वधियोपनीतैः । माता तवास्ते बहुदुःखतप्ता, विषण्णहृदेव तथास्ति बप्ता ।।१३०॥
तस्मादतः प्रस्थितिरेव योग्या, ब्रह्वी पितुः श्रीस्तु तवैव भोग्या ।
पाश्चात्यचिन्तामपि माऽथ मुम्च, स्वीयं कुटम्बं कुरु सोत्सवं च ॥१३१॥ सदीयबुद्धया कृतवान् प्रयाणं, सार्थे गृहीत्वा दलमप्रमाणम् । चक्री स युक्तो मणिभूषिताभिविमानमालाभिरिनप्रभाभिः ॥१३॥ विद्याधरोहामरमाभिरामश्चल नभस्यद्भुतरूपकामः। प्रापाद्भुतं भूरि सृजन जनस्य, श्रीहस्तिनापुर्नगरं प्रशस्यः ॥१३॥ पितृप्रसूनागरमानसान्तस्तदा प्रमोदः प्रबभूव कान्तः । तदर्शनोद्दामसुधाम्बुसिक्ता, जाता विशश्वासुखदाहमुक्ताः ॥१३४।। षट्खण्डभृद्भारतवर्षभोक्ता निधीनवाप्यहितले प्रयोक्ता । चक्रादिरत्नानि चतुर्दशायं, बभार चक्रो दलयन पायम् ।।१३५।। द्वात्रिंशदुर्वीशसहस्रसेव्यः, सोऽभूचतुःषष्टिसहस्रदेव्यः । विभूषयन्ति स्म गृहाणि तस्य, द्विपाश्वपत्तोष्टरथाश्रितस्य ।।१३।। वर्षायपि द्वादश चास्य दृष्टः, पट्टाभिषेकः समभूपसृष्टः। गभस्तिमालीव पटुतापश्चक्रयेष जातो भरतक्षमापः ॥१३७।। अथो सुधर्माभिधसत्सभायां, शुक्रः सुरश्रेणिनिषेवितायाम् । श्रोतोमणीनामकमिष्टकृत्य, प्रमोदतः कारयति स्म नृत्यम ।१३८॥ ईशानतः सङ्गम आजगाम, तदेन्द्रपार्वे त्रिदशोऽभिरामः । सज्ज्योतिषां सूर्य इवापरेषां, हरन् सुराणां रुचिरूपरेखाम् ।१३९। प्राहुस्तदाखण्डलमादितेयाः, तेजःकलाऽमुष्य कुतोऽस्त्यमेया 1 ऊचे वृषाऽऽचाम्लकवर्द्धमान, कृतं तपोऽनेन पुरा प्रधानम १४०। खद्योतवन्तावदयं सुरोऽतिप्रौढं वराकः कुतुकं तनोति । युष्मासु यावन्न सनत्कुमारः, समीक्ष्य ते रूपगुणैरुवारः ।।१४१॥
तवैजयन्तो विजयोऽप्यनिष्ट, द्वौ मन्यमानौ वचनं पटिष्ठम । सूरो मियो मन्त्रयतः सदिव्यं, रूपं कथं स्यान्मनुजस्य नथ्यम् ।।१४२॥
॥५७॥