________________
उपदेश
सप्ततिक
।।६।।
आगत्य सोऽपि प्रथितप्रणामः, प्राप्तासनोऽस्थात्सविधेऽभिरामः ।
अपृच्छदेतं नृपतिः सुखं ते, राज्येऽस्ति भद्रं च निजेऽतिक्रान्ते ।।११९।। मातुः पितुतिकदम्बकस्य, श्रेयोऽस्ति मित्रोत्तम मामकस्य । अथाप्तपञ्चाङ्गपटु प्रसादश्चक्रे स विज्ञप्तिमनाप्रसादः ।। १२० ।। कायेन हे नाथ पितुर्जनन्याः, श्रेयःस्थितिस्त्वन्त रहो तदन्या । प्रस्तावकीनोऽश्वकृतापहारः, पित्रोद्यथा राति यथा प्रहारः । १२१॥
स्ववीक्षणार्थ दशदिक्षु शोकात्संप्रेषितास्त्वज्जनकेन लोकाः ।
धूताधुतिस्ते सविताऽपि वृद्धः, स्वयं चलन् सोऽथ मया निषिद्धः । १२२।। | अहं ततः संन्यभराभ्युपेतस्त्वदाप्तये प्रस्थित एव नेतः । चिरं परिभ्रम्य धनां तथा गां, निवृत्तसैन्यः क्रमत रिस्वहागाम् ।।१२३।। दुर्वारकान्तारपुराकरेषु, प्रोद्दामदेशेषु महीधरेषु । एकाकिनो बेगवताऽथ मित्र, दृष्टो मया त्वं न हि कुत्र कुत्र ।।१२४।।
परं न दृग्गोचरतां प्रयातः, कियत्सु वर्षेषु गतेषु दासः ।
पुराकृतानां तमसा किलान्ते, त्वमद्य लब्धो निधिवत्सुकान्ते ।।१२५।। वृत्तं विभो हि निजं समूलं, निःशेषविद्वेषिशिरस्सु शलम् । तदोक्तमेतेन ममैति निद्रा, भार्येय मे तत्कथयिष्यति द्राक ।।१२।। जजल्प हुचित्रकर तदीयं, तदा चरित्रं कुवलत्यपीयम् । प्रज्ञप्तिकायाःप्रकटप्रभावात् , कायेन वाचा सरला स्वभावात् ।।१२७।। मरुजयधीप्रभृतिर्दुरन्तः, श्रुतस्यदीयो ह्यमुनाऽप्युदन्तः । सुधारसास्वादसमा दशा सा, तयोस्तदाऽभूत्समनःप्रकाशा ।।१२८।। अर्थष वैताढयगिरौ प्रभुत्वाद्राज्यं पुनः पालयति स्म गत्वा । मित्रेण साकं परिवर्जयित्वा, सर्वाश्यबद्यानि रिपून जिरवा १२९