________________
उपदेश
114811
साऽपि क्रमाम्भोरुहि तस्य लग्ना, क्षणात्प्रदत्तस्वविवाहलग्ना । भार्या कुमारेण निजा सुनन्दानुज्ञावशात्तत्र कृता भन्दा १९३ श्रीवेगस्य महर्षिवाक्यतः पतिः कनीनां भविशेष धीमतः ।
सनत्कुमारेऽस्य यतस्तदाय [तौ ], राट् चन्द्रवेगः श्वशुरोऽस्य जायते ।। ९४ ।।
श्रीचन्द्रवेगश्वशुरेण तत्र, श्रीभानुवेगेन तथा स्वपुत्रः । प्रेष्येकदाऽयो हरिषेण एकः प्रचण्डवेोऽपि लसद्विवेकः ।। ९५।३ ताभ्यामुभाभ्यां प्रथमागताभ्यां भूयि सन्नाहरथैर्युताभ्याम् । प्रोक्तं कुमाराय निशम्य जातं, तं वज्रवेगस्य सुतस्य घातम् । ९६ । विद्याधरोऽत्राशनिबेगनामभृत्त्वम्मारणार्थं समुपैति भूमिभृत् ।
आवां पितृभ्यां प्रहितो स्वदन्तिके, ततो घनां धेहि घृति हृदि स्वके ।। ९७ ।।
द्वावावयोः साम्प्रतमेव तातो, समेष्यतस्त्वत्रिकटे तथा तौ । अत्रान्तरे व्यामनि तूर्यशब्दः समुत्थितः प्रावृषि या गब्दः | १८| ती भानुवेगाभिचन्द्रवेग, तत्रागती सैभ्ययुतौ स्ववेगौ । नरेश्वरौ द्वावपि चारु कर्तुं कुमारपार्श्वेऽरिबलं प्रहर्तुम् ॥९९॥ अथाविकामसमागतस्य, विद्याधरस्याशनिवेगकस्य । सैन्यारवेण प्रविधाय मुक्तं, नभोऽङ्गणं तन्मुखरत्वयुक्तम् ॥१००॥ तत्संमुखं व्योमनि तेन गत्वा तदा कुमारेण बलं हि धृत्वा । विद्याभृदावलीसहितेन युद्धं कर्तुं समारब्धमतिप्रसिद्धम् ॥१०१॥ आक्रान्त विक्रान्त शिरोमणीक, समुच्छेलच्छोणितधोरणीकम् । भद्वेभमुक्तावृतमेदिनीकं द्वन्द्वं करोति स्म तयोरनीकम् ।। १०२ ।। तौ चन्द्रभान्वादिमवेगविद्याधरी तदानेन विमुच्य विद्याः। जितौ क्षणेनाशनिवेगनाम्ना, विद्याभृता तो रवितुल्यधाम्ना ।। १०३ ॥ अथ कुमारेण समं चकार, द्वन्द्वं स विद्याभृडुरुप्रहारः । विद्याभृताऽमोचि महोरगात्रं मुक्तं कुमारेण च गारुडात्रम् ||१०४ ||
सप्तनिका
१५४।।