________________
।।५३
विनिर्मिते सद्मनि शृङ्गिशृगे, बलाद्विमुक्ताऽत्र विमानचङ्गे। रात्रिन्दिवं शोकसमुद्रमग्ना, कष्टेन वतें कदलीव भग्ना ।।८।। अत्रान्तरेऽसौ खचरः समागाहा कुमारः बहसा मिरगा। परिक्षाप्त आकाशतले बलेन, विद्याभृता तेन कृतच्छलेन ।।८।। वजाहतेवात्यसुखं भजन्ती, हाहारवं स्वीयमुखे सुजन्ती । भूमण्डलेऽसौ पतिता वराकी, कुमारिका बाणहतेब काकी ।।८।। विधायिनी सत्पुरुषक्षयस्याभूवं विलापान सृजतीत्यशस्यान् । अथो कुमारः खरमुष्ट्रिघातस्तं जीवमुक्तं विदधे हहा तैः ।।८४।।
पुन: सुनन्दापुरतः समागतः सनत्कुमारः कुशलश्रिया श्रितः ।
आश्वासयामास च तां महाद्भुतं, वृत्तान्तमाख्याय निजं बलोचित्तम् ।।८५।। सा तेन गन्धर्वविवाहवृत्त्या, कक्षीकृता चेतसि वाचि सत्या । तस्यास्तु लावण्यकलां न कश्चिद्वक्तुं क्षमास्याद्भवने विपश्चित् । ८.६।
मुखेन जिग्ये ननु पार्वणः शशी, स्फुरन्मयूरश्चिकुरः कृतो वशी।
गण्डौ पुनर्वावपि रत्नदर्पणौ. भुजौ मृणाले कृतभीसमर्पणौ ॥८७।। पाणी धूनाम्भोरुहकान्तिलम्भी, कुचौ सुधापूरितहेमकुम्भी। मृदू तदूरू कदलीदलाभौ, चक्षुःप्रदेशौ च तडिल्लताभौ ।। ८८।। स्त्रीदर्शनप्रेमरसतपूर्णः, क्रीडॅस्तया भागभररजूर्णः उवास तत्रैव गृहे सुखेन, त्यक्तस्तरां चेतसि शङ्कनेन ॥ ८९ ।। P सध्यावली तत्र तदैव रंहसा, सा वज्रवेगस्य सभागता स्वसा । विलोकयामास मृतं सहोदरं, निजं धरित्रीपतितं बलोद्धरम् ९० ol करेण केनापि विनाशितो मे, भ्राताऽत्र वाजीद विशिष्टहोमे । इतीव तन्मारणसावधानाऽभूद्यावता सप्रतिघप्रताना ।। ९१ ॥
नैमित्तिकोक्तं वचनं तदेवं, तस्याः स्मतं निर्मितचित्रभेदम् । भविष्यति भ्रातृ विनाशकारी, भोक्ता त्वदीयो भुवि चक्रधारी ९२
॥५३॥