________________
उपदेश
॥५२॥
उक्त्वेति विद्यारिजयस्य कर्त्री, श्री भानुवेगेन विषादहर्त्री ।
दत्तस्य सोऽष्टा भिरथाङ्गनाभि:, सुष्वाप रात्री सह धाम्नि ताभिः ।। ६९ ।।
ततः समुत्पाटय कृतप्रमील:, सद्वंशजातः शिखरीव नीलः । यक्षेण मुक्तः सुकृती सलीलः, कुत्राप्यरण्ये सुविशुद्धशीलः ॥७०॥ यावत्प्रभातेऽजनि जागरूकः, स्वं पश्यति स्मैष तदेव घूकः [ तदाऽवधूकः ] । सनत्कुमारः पतितं विशाले, दुर्वारभूभृद्गहनान्तराले ।। ७१ ।।
| विचिन्तयत्येष किमिन्द्रजाल, कन्याष्टकं तत्त्व गुणे रसालम् । फेरकार वत्यः परिता भ्रमन्त्यः, शिवाः किमीक्ष्यन्त इमा इयत्यः ७२ मम प्रहारैरचितव्ययस्य, संभाव्यते वा छलनाद्यतस्य विक्रीडितं वैरभृतः सुरस्य, प्रोद्दामरोषाकुलमानसस्य ।। ७३ ।। द्विशङ्के चरति स्म तावत्सोधं समैक्षिष्ट महत्सुधावत् । शैलस्य शृङ्गे करुणावरेण स्त्रियोऽथ कस्याश्चिदितं परेण ॥७४॥ प्रोच्चैर्गतः सप्तमभूमिकायां ध्वनेर्विशेषं शृणुते शुभायाम् । एवं स्वववत्रेण कुलाङ्गना सा, तदा वदन्त्यस्ति घृतप्रवासा ॥७५॥ कुरुस्फुरद्वंशनभः शशाङ्क, श्रीवत्ससंशोभिभुजान्तराङ्क । सनत्कुमार त्वमहो न भर्त्ता, यदीह् तत्प्रेत्य भवाधिर्त्ता ॥७६॥ तदग्रतोऽभूत्प्रकटस्तदानीमयं नराधीश सुतोऽभिमानी । पप्रच्छ का सुन्दरि कस्य पुत्री, सनत्कुमारेण कुतोऽस्ति मैत्री ॥७७॥ दत्त्वासनं सा न्यगदत्कुमारं शुभागमोऽमुत्र कुतस्तवारम् । त्वद्दर्शनान्मेऽस्ति मनः सहर्षं, वनं पयोदादिव सप्रकर्षम् ।।७८।। सुता सुनन्दाऽस्म्यरिमर्दनस्य, द्रङ्गे किलोर्वीतिलके स्थितस्य । सनत्कुमारं प्रियमेव कर्तुं जाता सरागा च सुखं विहर्तुम्, ७९ तस्मै पितृभ्यामहमेकचित्ता, पयः प्रदानेन तदा प्रदता । वज्राद्यवेगेन हृताऽथ विद्याभृता कुमार्यप्यहमस्म्यविद्या ॥८॥
सप्ततिक
।। ५२ ।।