________________
॥५॥
तं वीक्ष्य राजे स जगाद दुरस्तदास्मि भेत हे निषितः । स्थालं यदा दास्यसि पुष्टिदेशे, त्वमस्य राजन्म दुलोमलेशे।७॥ विज्ञाय तस्याग्रहमित्यनेन, तथैव चक्रे धरणीधवेन । तप्तं त्रिदण्डी परमानमत्ति, प्रीत्याऽस्य पृष्ट शिविना भिनत्ति ५८ श्रेष्ठी स्मरन् प्राक्तनकर्मयोग, यतीव सम्यक् सहते स्म रोगम् । कृतेऽशने स्थालमिदं गृहीतं, दूरे वसामांसरसः परीतम ५१ गत्वा स्वगेहे स्वजनानशेषान, जिनश्चि संमान्य गुरुन् सुवेषान् । सङ्घ चतुर्धा परिपूजयित्वा, तेपे तपः शैलगुहास गवा ६० उत्सर्गमाधाय किलकपक्षं, तस्थौ स पूर्वाभिमुखः समक्षम । तथा तिसुष्वप्यपरासु दिक्षु, श्रेष्ठी प्रमोदेन दिवं दिक्षः ।।६।। बयःशृगालैरपि भक्ष्यमाणः, प्रोद्दामपीडां स तितिक्षमाणः । मासद्वयान्ते मतिमाप्य जातः, सौधर्मवासी हरिराप्तसातः ।।२।। त्रिदण्डयर्थरायणनामकुम्भी, जोऽभियोगी मरुदेष दम्भी। निरीक्षते पूर्वभवे जनीनं, स्वयं पराभूतमिमं शचीनम ॥६॥ साहस्तिरूपं न करोति यावद्वज्रेण वज्री स जघान तावत् । च्युत्वा हरिस्त्वं ननु चक्रवर्ती, जातश्चतुर्थः शुभभाववर्ती ।।६४।।
सुरः स ऐरावणनामधेयस्तिर्यक्ष कृत्वा भ्रमणान्यजेयः ।।
जातोऽसिताक्षोऽस्त्यलभन् प्रबोध, साद्ध त्वयाद्याप्यसृजद्विरोधम् ।।६५।। IN यक्षद्धिमज्ञानतपःप्रभावात्तस्माद्दधानाददमस्वभावात् । सर्वेषु कार्यष्वपि शङ्कनीय, त्वया प्रमत्तेन न वर्तनीयम् ।।६।।
कृत्वैकमप्यत्र निज सपत्नं, संतिष्ठते यो न नरः सयत्नम । स कृष्णसर्प रचयन्नपुच्छं, दधाति सौख्यं शयनादतुच्छम् ।।६७॥ कीदृग्विधोऽयं समयः सहायाः, के मामकीनाः क इहाभ्युपायाः। के बैरिणः कायकलाऽप्यलं का, मुहुविधेया स्वहृदीति शङ्का ६८
॥५१॥