________________
पदेश
सप्तति र
४८.1
एकेन यक्षेण वनस्थितेन, प्रसिच्य सजः स कृताऽमृतेन । मूछात्थितापृच्छदिदं क वारि, प्रवर्तते यक्ष जनोपकारि ॥ १८ ॥ यक्षोऽप्यवोचत्सलिलं कुमार, स्यान्मानसेदः सुपदप्रचार । कुत्रास्ति तन्मानसमेवमुक्ते, प्रोल्पाटितस्तेन स देवशक्तेः ।। १९ ।। सरोवरस्य स्फुटमानसस्य, प्रान्ते विमुक्तः पयसावृतस्य । कृत्वा प्रणाम बबले स यक्षः, परोपकृत्युन्नतिवद्धकक्षः ॥ २० ॥ समस्थलल्लोलतरोमिमाल, समोपदेशस्थितपक्षिबालम् । समन्धपाथोगचलण्यालं, परिसरमालामालसालभु ॥ २१ । गोदुग्धनिर्मलमिष्टतीरं, हंसावलोनक्रनिषेव्यतीरम् । स मानसं नाम सरो ददर्श, प्रोमूतनानानिधहृद्विमर्श: ॥ २२ ।। प्रातः सरोऽन्तः सवनं निधाय, प्राप्तप्रमाद: कनकाभकाय । जग्राह विधाममताकहस्य, च्छायागतेाऽधः सहसेोपविश्य । २३ ।। तत्रागतस्तावदथासिताख्यः, प्रोद्दामयः कृतलोहिताक्षः । सार्ध कुमारेण दृढप्रहारः, प्राग्जन्मवरात् समरं चकार ।।२४॥
यक्षेण मुक्तानपि नागपाशान, विनिमिमीते स्म स सद्विनाशान् ।
शीर्षोपरिष्टादचलं च मुक्त, चक्रे स्वमुष्ठ्या कणसाद्विभक्तम ॥२५॥ यक्षः कुमारेण दृडं प्रहृत्य, द्रारजर्जराङ्गो विहितः स्वकृत्यः । आराटिमाधाय ततः प्रणष्टः, परं सुरत्वान्न मृतः स दुष्टः ।।२६।। पुण्यप्रभावेण जितः स यक्षः, कृतश्च घने शशिवद्विवक्षः । प्रसुनवृष्टिगंगनाद्विमुक्ता, देवैस्तदा मूनि किलास्य युक्ता ॥२७॥ विद्याधरस्य क्षितिविश्रुतस्य, श्रीभानुवेगस्य नरेश्वरस्य । विमानमारोप्य सुरैः सभायां, मुक्तो नगर्यां प्रियसङ्गमायाम् ।।२६।। | शुद्धं कुल मूतिरहा न रुद्रा, भुजोजितं भूरि मतिश्च भद्रा। अखण्डिताऽस्तु प्रभुता जय त्वं, वैतालिकस्तत्र पपाठ तत्त्वम् ।।२९।। श्रीभानुवेगेन नराधिपेन, प्रोत्थाय तेन स्वसभास्थितेन । सन्मानितोऽयं सुधिया कुमारः, संस्थापितः सनि निर्विकारः ॥३०॥