________________
॥४७11
तत्रास्ति भूपः किल विश्वसेनः, स्फूर्जज्जयश्रीधरविश्वसेनः । स्वैरं क्षिती यस्य यशोमरालश्चिक्रीड कुल्यापयसीव बालः ॥४॥ a तस्यास्ति कान्ता सहदेव्युदारा, रूपेण रम्भाप्रतिमा सुतारा । चञ्चञ्चतुःषष्टिकलासमेता, शरत्पयःश्रेणिरिवाच्छचेताः ॥५॥
चतुर्दशस्त्रप्ननिदर्श सूचितः, सुतस्तदीयोऽजनि लक्षणोचितः । सनत्कुमाराभिधयाऽतिविश्रुतः, कलाकलापेन शशीव संश्रितः ।। क्रमेण तारुण्यमवातदानयं, सोमन्तिनीहृन्मृगवागुरामयम् । मुखं मृगाङ्कोज्ज्वलमण्डलोपमं, नेत्रद्वयं चास्य पयोहोत्तमम् ।। भुजावपि द्वौ परिघोपमानौ, पदो पुन: कच्छपवत्प्रधानौ । वक्षःस्थल व्यूढकपाटरूपं, रूपं पुनश्चित्तभुवा सरूपम् ।।८।। सर्वाङ्गशोभागणवण नायां, शक्तिर्न कस्यापि तदीयकायाम् । तेजस्तदीयं रविबिम्बतुल्यं, तीनं द्विषत्कौशिकचित्तशल्यम ॥९॥ अमुष्य रूपस्य तुलां मुरारिनल: कुबेरोऽपि च नासुरारिः। न लेशमात्रेण च पञ्चवाणः, प्राप्तो जयश्रीसफलप्रयाणः ॥१०॥ उल्लालसोति स्म सदैव चैती, राकेर बाल्यादपि तस्य मंत्री। महेन्द्रसिंहेन समं शुभेन श्रीशरभूवल्लभनन्दनेन ।। ११ ॥ स योवनेऽभ्यस्तस मस्तविद्यस्तेनैव साकं सुहृदाऽनवद्यः । द्रष्टुं वनं चारु बसन्तमासे, बहिः समागात् सुषमानिवासे ।। १२ ।। काहावलोवाहनवानुदारः क्रीडापरो यावदभत्कुमारः । अश्वाधिरूढोऽपहृतः क्षणेन, केनापि तावन्मरुताऽधणेन ।। १३॥ मुक्तो महाकर्कशककरायां, भयप्रदायामटवोधरायाम् । चिन्तां दधौ चेतसि रक्षसा बा, नीतोऽहमत्रास्मि सूधाभुजा वा ।१४।। अश्वात्समुत्तीर्य सनत्कुमारः, सर्वत्र बनाम सूरानुकारः । शून्यां वनीं तां निशि यूथमुक्तः, स्याद्यादृशो बालमृगा वियुक्तः ९५ यथा प्रदीपे पतितः पतङ्ग, सनत्कुमारेण विमुक्तसङ्गः । ममार तत्रोरुतरस्तुरङ्गः, श्रमेण संपन्नशरीरभङ्गः ॥१६॥ अरण्यमध्यभ्रमलग्नतर्षः, शुष्कास्यकण्ठः परिभूतहर्षः। भ्रान्ताक्षियुग्मः पतिता जगत्यामचेतनाऽतीव मृदुः प्रकृत्या ।। १७ ।।
॥४७॥