________________
उपदेश
मपनिव
जया उदिष्णो नणु कोवि वाही, तया पणट्टा मणसो समाही ।
तोए दिणा धमापई असिजा, चित्ते कहं दुक्खमरं तरिज्जा ॥५॥ व्याख्या--यदा कदाचिदुदीर्ण-उदयं प्राप्तो नन्विति निश्चये कश्चिदपि व्याधिस्तदा । किं स्यादित्याह-प्रकण नष्टः
प्रणष्टो मनसचेतसः समाधानं समाधिः सौस्थ्यमित्यर्थः । व्याधी समुत्पन्ने मनसः समाधानं कुत इत्यर्थः । पुल्लिङ्गेऽपि ॥४६1A
स्त्रोत्वनिर्देशः प्राकृतत्वात् । "तीण विणेत्यादि" तया (तेन) बिना समाधिमनरेण धर्मतिर्वर्मबुद्धिर्व सेन्निवासं कुर्यात् चित्ते मनसि कथंकारं । अब च दुःखभरं कयं केन प्रकारेण तरेज्जीवः ? न कथमपीत्यर्थः । यदा रोगोन्पत्तिः शरीरे काचित्संपन्ना तदा चेतःसोस्थ्यं गतमेव । चेतःसौस्थ्यमन्तरेण धर्मधी व वद्धते । अथ च धर्म विना जीवस्य मुखाभाव
एव केवल इत्यन्योऽन्याश्रयेण तात्पर्यार्थः । अब यथा वाधिसंभवश्रवणेऽपि श्रीसन:कुमारचक्रिणः संवेगरङ्गः मुमङ्गः . प्रादुर्बभूव तथाऽन्यरपि प्रार्धन्यैः स्वहितमाचरणीयम् । अत्रार्थे श्रोतुर्यचक्रिणः सनत्कुमारावयस्य समासत एत्र कथानकमुद्भाव्यते । तवेदं कृतिजनकृतोल्लाससानुप्रासकाव्यभनय व निरूप्यते- .
॥ सनत्कुमारचक्रिकथा । श्रीवर्द्धमानांहि युगं प्रणम्य, सम्यक्तया तत्त्वधियाऽधिगम्य । सनत्कुमारस्य रसेन पुष्ट, चरित्रमेतत् कथयाम्य दुष्टम ॥१॥ अस्तीह देशः कुरुजाङ्गलाख्यः, पुंसां धनोपार्जनबद्धसख्यः । विराजते तत्र च हस्तिनापुरं, महासमृद्ध्या जितदेवतापुरम् 11२ ।। संत्यक्तमोहा अपि मोहयुक्ता, विशालदोषा अपि मुक्तदोषाः । कुरूपयुक्ता अपि रूपवन्तः, पुरे च यस्मिनिवसन्त सन्त ॥३॥
।४।