SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ।।७।। अस्य प्रशस्त्याश्चर मे (१४) श्लोके "नव्या समतिका मुदा" इत्यत्र नव्यशब्दलेखक ग्रन्थकर्ता इदमसूचि, अयं मुनिवेद (१५४७) प्रमिते विक्रमाब्दे हिसारको वस्तव्य दोदाभिश्रादाग्रहेण पूज्यै: श्री क्षेमराजा at रचित इति प्रशस्त्यां शंसितं एतत्प्राचीनचेतनामा [ उपदेशसप्ततिनामा ] एव ग्रन्थः पण्डितप्रवरः श्रीमत्सोमध गणिभिस्त्रयुत्तरपञ्चदशशततमे [१५०३] विक्रमाब्दे निर्मितः योऽप्रत्यया श्रीआत्मानन्दसंस्थया मुद्रापयित्वा प्रकटितोऽरित वर्षादर्वा इति तदपेक्षया योग्यमेवास्य नव्यत्वं । अनयोर्द्वयोरपि महान् विषयभेदः कृतिभेदव भिन्नभिन्नकर्तृकत्वात् । किंच प्राचीनः संक्षिप्तकथानक आसन्नसहस्रत्रयप्रमितः श्लोकानां अयं च विस्तृतकथानक सन्नमाष्टकप्रमितः श्लोकानां मूलमपि च द्वयोरपि भिन्नमेवेत्यतोऽपि नूतनत्वमस्यान्वर्थमेवेति ध्येयम् । ग्रन्थस्यास्य मुद्रापणे न्यायाम्भोनिधिश्रीमद्विजयानन्द [ आत्माराजी ] सूरीश्वरपट्टविराजितश्रीमद्विजय कमलसूरीश्वरसदुपदेशामृतसिक्तेन गोधानिवासिना श्रेष्ठवरेण मगनलालतनुजन्मना श्रीमद्धर्मचन्द्रेण द्रव्यसाहाय्यं दत्तं । संसच्छात्रिणा जेठालालशर्मणा लिखिताऽस्य प्रतिकृतिः प्रथमं पन्न्यास श्रीमणिविजयाह्वयैः पश्चाच पम्म्यास श्रीदानविजयाभिधः संशोधिता, मुद्रायन्त्रणप्रतिकृतिसंशोधनेऽप्याभ्यामेव पन्न्यासवराभ्यामवधानं दत्तमित्यनयोः सुरीश्वराणां श्रेष्ठवरस्य च महोपकारं मन्यामहे । शुद्धिविषये चास्य कृतेऽपि यथाशक्ति प्रयासे कुतोऽरि हेतोर्या काऽप्यशुद्धिर्दृष्टिपथमवतरति विदुषां तैः कृपापरैः शोधयित्वाऽऽदेश्या संसदियं येन द्वितीयावृत्ती तद्विषये यत्येत । इति शम् ।। द्वितीयभाद्रपद शुल्कचतुर्थ्यां संवत् १९७३. प्रकाशयित्रि श्री जैनधर्मप्रसारकसभा भावनगर 111311
SR No.090524
Book TitleUpdeshsapttika Navya
Original Sutra AuthorKshemrajmuni
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy