________________
उपदेश
॥६॥
अस्मिँव ग्रन्थे मूले सर्वेऽपि श्लोकाः प्राकृतभाषयामिन्द्रवज्रयैव ग्रथिताः, आत एषां मुखपाठमागेजति महानाद्वादशे वक्तृश्रोतॄणां जायते किमुतार्थविचारणे ? । अत्र प्रथमश्लोके मङ्गलमन्तिमयोश्व फलमभिहितमतोऽवशिष्टाः सप्तनिरूपदेशलोक इत्यन्वर्थेयं उपदेश सप्ततिकेति संज्ञाऽस्य ग्रन्थस्य । प्रतिश्लोकं चात्र प्राय उपदेशचतुष्टयमात्मनोजयन्तहितकारि वरीवृतोति । तदुपरि ऋजुभाषयाक्षरशी मूलकारैरेव संस्कृतभाषायां टीका कृता, तत्तदुपदेशानुसार नागमोक्तप्रायं कथानकजातं गीर्वाणभाषायां प्राकृतभाषायां पैशाच्यादिभाषायां च विविधैः सरसः सालङ्कारैः सयमकैवृत्तश्छन्दोभिः क्वचिच्च गद्यनापि व्यरचि एवं चाधिकशतं कथानकानामत्र कथितं । कथानकेषु प्रायः शब्दकाठिन्यं वर्णकाठिन्यं च वर्णितं, व्याकरणप्रयोगाश्च नूतना कठिनाश्च प्रयुक्ताः, अतो ग्रन्थकत्ऋणां साहित्यजानं व्याकरणज्ञानं चातीय समीचीनमासीदिति स्फुटं ज्ञायते । किं बहुना ? सर्वथाऽस्य काव्य रसस्यास्वादकारिणो विद्वांस एव । किंच काव्यरचनया ज्ञातेऽपि व्याकरणपाण्डित्ये पूज्यानां क्वचिदनुपसर्गपूर्वपदेऽपि ऋत्वो ल्यवादेशदर्शनाच्छङ्कितमेव हृदयं, कवीनां निरङ्कुशत्वे स्वीकृते तु समाधीयत एव तत् । एवमन्यत्रापि क्वचिचित्यप्रयोगे ज्ञेयं । अत्र वणितोपदेशयाणां कथितकथानकानां चानुक्रमणिकावाचनेनैव तद्गौरवं ज्ञायत एवेति तां दृष्टिपथं नेतुं प्राप्यंते वाचकवर्ग: । मूलं चास्य पाठतोऽर्थतश्चातीवरम्यं भव्यजनोपकारीति सर्वेविशेषतश्चोपदेष्टभिः कंठे कार्यमिति पृथक्ऋत्य प्रारम्भेऽपि मुद्रापितं । आशास्यते च विद्वद्वर्गोऽस्य बृहतो ग्रन्थस्य मुद्रापणप्रयासं द्रव्यव्ययं च पठनपाठनोपदेशदानादिना सफलतां नयेत् ।
'
१. असमासेऽपीत्यर्थः,
समतिका
॥६॥