________________
उपदेश
सप्तति
।।३६
एतत्प्रयासतो यत, सुकर्म संचितमिहाभ्युदयकारि । तेनैष भव्यलोको, लभतां बोधि शिवाभ्युदयाम् ।।२।।
एतत्परिज्ञाय भो आत्मन् रसनेन्द्रियविषयलाम्पटयतो विरम । सर्वेषामिन्द्रियाणां जिह्वेन्द्रियमेव प्रवलं, यदुक्तं-- "अक्खाण रसणी कम्माण मोहणी तह वयाण बम्भवयं । गुत्तीण य मणगुत्ती चउरो दुक्खेण जिप्पंति ॥१।।" मत्स्या अपि तन्निमित्तकमेव सप्तमी नरकपृथ्वीं गत्वाऽपरिमितकालं यावदनेकशतसहस्रशारीरमानसदु खभाजो भवन्ति । यदाह परमधिः --- मारनिविन मच्छा गच्छंति समि पुढवि। सच्चित्तो आहारो न खमो मणसावि पत्थेउ ॥१॥" रसनातृप्तौ संजातायां शेषाण्यपीन्द्रियाणि विकारव्याप्तानि भवन्ति । विकारवेगे च सति ध्रुब मेवाध्यवसायविपरिणामो जायते । तस्मिंश्च सति निवितघनकर्मसंतत्युपार्जनद्वाराऽवश्यमेवानन्त कालं यावच्छुतकेवलिनोऽपि संसारे स्थितिः । यदुक्त-"जइ चउदासपुरवधरो वसइ निगोएसुणतयं कालं । निद्दापमायबसओ ता होहिसि कहं तुम जीव ?
" घोरकर्मवर्जनमपि क्षुद्रसत्त्वैरासंपादनेन तद्धितचिन्ताकरणद्वारा तदुपरि मंत्रीभावसंरक्षणेनैव भवति इत्यतो हेतोर्युक्तमेवोक्तं--"मित्तेण तुल्लं च गणिजा खट्वं जेणं भविज तुह जीव भद्द" इति तृतीयगाथायाः प्रान्तपदद्वयं विवार्यते । च पुनः मित्रेण सुहृदा तुल्यं समानं गणयेत् मन्येत क्षुद्रं दुष्टमपि अत्यन्तापकारिणमपि परमोपकारिणमिव गणयेथाः । न हि दुष्टेष्वनिष्टं कुर्याः । येन साम्यावस्थालम्बनेन हे जीव तव भद्रं मोक्षावाप्तिलक्षणं स्यादिति तात्पर्यार्थः ।
अबार्थे कौतिचन्द्रसमरविजयभ्रायोः सन्धिबन्धेन कथा प्रतन्यते--
11३६।