________________
।।३५।।
सावत्तत्र मित्रराजः सर्वालङ्कारविभूषितः समागतः । तत्र चोज्झितदारकं तया रममाणं दृष्ट्वाऽतिकुपितः । ततश्च तेन स नियन्त्रय ताडयित्वा च व्यडम्ब्यतः वध्यश्राज्ञप्तः । गौतम आह-- "हे भगवन् स उज्झितः पञ्चविंशतिवर्षायुः पूर्ण प्रपात्याद्यं व त्रिभागावशेषे दिवसे गुलारोपितः सत्ता कुत्र गमिष्यति ?" भगवानाह - "हे गौतम स उज्झितक इतश्च्युतो रत्नप्रभेति प्रथम नरकपृथिव्यां नारकत्वेनोत्पत्स्यते । ततश्चानन्तरमुद्वृत्तोऽत्रैव जम्बूद्वीपे भारते वर्षे वेतांढपादमूले कपिकुले वानरत्वेनोत्पत्स्यते । तत्राप्यतिमूर्च्छितस्तैरश्च भोगेषु जातान् बालकपीन् मारयन् तत्प्रत्ययं प्रभूतकर्मोपाये कालं कृत्वा एतञ्जम्बूद्वीपस्वभारतवर्षे इन्द्रपुरे नगरे वेश्याकुले पुत्रत्वेनोत्पत्स्यते । तं जातमात्रं मातापितरौ वद्धितकं कृत्वा नपुंसककर्मणि शिक्षप्येते नाम च तस्य प्रियसेन इति करिष्यतः । ततश्च स यौवनं प्राप्तोऽनेकचूर्णवशीकरणादिभिवंशीकृत्य राजेश्वराभिर्भोगान् भोक्ष्यते । एकविंशत्यधिकशतवर्षायुः परिपाल्य सुबहुपापकर्म च संचित्य रत्नप्रभायां नारकत्वेनोत्पत्स्यते । अपरिमितकालं यावत्तदनन्तरं संसारे परिभ्रम्य एतजम्बूद्वीपे भारतवर्षस्थ चम्पापुर्यां महिषत्वेन भवि ष्यति । तत्र विनाशितः सन् तस्यामेव नगर्यां श्रेष्ठिकुले पुत्रत्वेनोत्पत्स्यते । यौवने तथारूपस्थविराणामन्ति के बोधि लब्ध्वा सोधमें संजात सन् ततश्च्युत्वा यावद्भवान्तं करिष्यति ।
।। इति घोरकर्मणि उज्झितदारकदृष्टान्तः ॥ इत्थं निशम्योज्झितदारकस्य, धोरे कृते कर्मणि दुःखजातम् । जिह्वेन्द्रियादेर्भवभोगतोऽमी, सन्तो विरज्यन्त्वतिदुःखदायिनः ||१||
TE