________________
उपदेश
॥३४॥
धिकेषु व्यतीतेषु सा दारकं प्रसूतवती । तस्य च विस्वरादिस्वरूपं रुदितं श्रुत्वा बहवो गवादयो भीता उद्विग्नाश्र पलायिताः । एतदनुसारेण तस्य दारकस्य गोत्रास इति मातापितृभ्यां नाम स्थापितं । सुनन्देन तत्पित्रास कुलनायकत्वे निवेशितः । स चाधार्मिकः पापरतिश्च समजनि । स च सदाऽर्धरात्रे स्वसद्मनो निर्गत्य पूर्वोक्तमण्डपे गत्वा गवाद्यवयवान्निकृत्य गृहमागत्य तानास्वादयन् विचरति । पञ्चवर्षशतानि घोरपापद्वाराऽतिधनं कर्मोपचित्य शर्करेति द्वितीयनरकपृथिव्यां त्रिसागरोपमायुर्नारकोऽजनि । इतश्च पूर्वोक्तविजय मित्रसार्थपतिभार्या सुभद्रा मृतापत्यकासीत्, तत्कुक्षौ च स गोत्रासजीवोऽवातरत् जाते च तस्येोज्झित इति नाम दत्तं मातापितृभ्यां प्रथमं जातमात्रेऽवकरके त्यक्त्वा पुनरात्तत्वात् । स च पञ्चधात्रीपरिपालितो वर्धते । अन्यदा तलिता विजयमित्र सार्थवाही गणिमादि चतुविध भाण्डं गृहीत्वा पोतेन लवणसमुद्रेऽगच्छत् । पोते भग्ने विजयमित्रोऽशरणो मृतः । भृत्याश्च सर्वे स्वाधीनं द्रव्यं गृहीत्वा गताः । तां च प्रवृत्ति श्रुत्वा सुभद्राऽमूर्धीत् । ततः स्वस्थीभूय स्वपतिमृतकार्यमकार्षीत् । सुभद्राऽपि यदा शोचन्ती मृता तदा राजपुरुषा आगत्य तं दारकं बहिः क्षिप्त्वा तद्गुहमन्यस्मै दत्तवन्तः । स च दारको दुःस्थतया सर्वत्र परिभ्रमन् वर्धते, परिपाठ्या द्यूतादिव्यसनी जातः ।
अन्यदा स कामध्वजगणिकया संलग्नः । श्रीदेव्या सह योनिशूलत्वेन यदाऽन्यदा राजा मित्रो भोगान् भोक्तुमसमर्थस्तदा गणिकागृहादुज्झितं निष्कासितवान् स्वयं च ताम् भुङ्क्ते । उज्झितकस्तु तस्यामत्यास तस्तदेकाराराध्यवसा यस्तस्याः प्राप्तयेऽवकाशमाकाङ्क्षति । कदाचिदवसरं लब्ध्वा गणिकागृहं प्रविष्टः । यावद्गणिकयोदारान् भोगान् भुङ्क्ते
सप्तनिका
||३४||