________________
३३॥
राजपुत्रादिर्वाऽपराध्यति, किं तु तस्य कर्माण्येवापराध्यन्ति" इत्युद्घोष्यमाणं च दृष्ट्वैवमचिन्तयत् - "अहो अयं पुरुषो - ऽत्रैव नारकतुल्यां वेदनां वेदयते" । ततो द्विचत्वारिंशदोषमुक्तैषणीयाहारं गृहीत्वा नगरान्निर्गत्य भगवतः सकाशमागत्य दर्शयित्वा च तमाहारं वन्दननमस्कारपूर्व नगरवर्त्मदृष्टपुरुषचरितं पप्रच्छ - "भगवन् स पुरुष: पूर्वभवे किरूप आसीत् ? कि वैतादृशं कर्मानेन कुत्रोपचितं ? येनैतादृशीमप्रतिमां वेदनामत्रानुभवन्नस्ति ?" ।
भगवानाह - है गौतम अत्रैव जम्बुद्वीपे भरतस्थं हस्तिनागपुरं नाम्ना नगरमभवत् । तत्र सुनन्दनामा नृपोऽभूत् । तस्यैव पुरस्य मध्यभागे गोमण्डप आसीत् । तत्र च सनाथानाथा बहवो गोबलीवर्दमहिषीवृषभादयः पशवः प्रचुरतृणजलसंतुष्टा निर्भयाश्च सन्तस्तिष्ठन्ति । इतश्च तत्र पुरे भीमनामाऽनेकजीवोपद्वावको मनुष्योऽभूत् तस्य चोपलानाम्नी भार्या, सा च कदाचिदापन्नस त्वाऽऽसीत् । त्रिषु मासेषु व्यतीतेषु तस्या अयमेतादृशो दोहदः प्रादुर्भूतो गर्भ प्रभावात्"ता मातरो धन्या याः सनाथ नाथ गवादिस्तनाद्यवयवान् पक्वान् तलितान् भृष्टान् शुष्कान् लवणसंस्कृतांश्च भक्षयन्त्यः सुरादिकं च पिवन्त्यः स्वदोहदं व्यपनयन्ति, अहमपि तमपनयामि" इत्यचिन्तयत् । परमनपनीयमानेऽस्मिन् सा दुर्बलनिस्तेजस्त्वादिविशिष्टाऽभवत् । स च तथाविधां दृष्ट्वोदासीनामेकान्ते तत्पतिस्तामपृच्छत् -- "किं त्वमुपहतसङ्कल्पेव चिन्तयसि ? " । एवं पृष्ठे च तथा पूर्वसुचितो दोहदोदन्तः स्वपतये प्रोक्तः । तं च श्रुत्वा सतां समाश्वासितवान् । अथ मध्यरात्रसमये सन्नद्धः सप्रहरणश्च स स्वगृहान्निर्गत्य नगरमध्येन भूत्वा पूर्वोक्ते गोमण्डप आयातः । तत्रत्यगवादिस्तनाद्यवयवांछित्वा गृहीत्वा च स्वगृहमागत्य तांस्तस्यै दत्तवान् । सा च दोहदं तैर्व्यपनीतवती । नवसु मासेषु सम
॥३