________________
उपदेश
।।४६२॥
समतिक्रामतो भिन्दानस्येत्यर्थः । "सम्मत्तपुरखखडे त्ति" सम्यक्त्वं पुरस्कृतं येन स तथा तस्मिन्नासन्नसम्यक्त्व एव जीवेऽनिवृत्तिकरणं भवतीत्यर्थः । शेषं सुगमं । एत्तस्मिँश्चान्तरकरणे कृते तस्य मिथ्यात्वमोहनीयस्य कर्मणः स्थितिद्वयं भवति अन्तरकरणात्वस्तनी प्राणप्रस्थितिरन्तर्मुहुर्त मात्रा तस्मादेवोपरितनी दोषा द्वितीयस्थितिरिति । स्थापना चेयं । तत्र प्रथम स्थित मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव अन्तर्मुहूर्तेन तस्यामपगतायामन्तरकरणप्रथमसमय एवोपशमिक सम्यक्त्वमाप्नोति मिथ्यात्वदलिक वेदनाभावात् । यथा हि वनदवानलः पूर्वदग्धन्धनं वनमूषरं वा देशमबाध्य विध्या यति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्यायति । तस्यां चान्तमहत्तिक्यामुपशान्ताद्धायां परमनिधिलाभकल्पायां जघन्येन समयशेपायामुत्कृष्टतः पडावलिका शेषायां कस्यचिन्महाविभीषिकोत्थान कल्पोऽनन्तानुबन्ध्युदयो भवति । तदुदये चासौ सासादनसम्यग्दृष्टिगुणस्थाने वर्तते । उपशमश्रेणिप्रतिपतितों दा कश्चित्सासादनत्वं यातीति तदुत्तरकार्ल चावदयं मिथ्यात्वोदयादसौ मिथ्यादृष्टिर्भवतीत्यलं विस्तरेणेति ।।
अथ सम्यक्त्व प्राप्तौ सत्यां यदुत्तरोत्तरं फलं स्यात्तत् प्ररूप्यते-
पत्थलेस पकरति चित्तं, जे सत्तखित्तंसु ववंति वित्तं । विदति निम्मोहमणा ममत्तं, कुणंति ते जम्ममिमं पवितं व्याख्या-ये ज्ञाततत्त्वाः सत्त्वा अप्रशस्तलेश्यापरिहारेण स्वकीयं चित्तं प्रशस्त लक्ष्यं प्रकुर्वन्ति । सप्त क्षेत्रेषु वपन्ति न्यायोपार्जितं वित्तं । क्षेत्राणि चतानि समये प्रोक्तानि श्रीभक्तप्रकीर्णक ग्रन्थे - " अह हुज्ज देस
॥७२॥
तथा ये
ज्ञप्ततिका