________________
मोशे ययौ प्रान्ते कान्तेऽनन्तसुखात्मके ॥१२५।। एवं श्रीनमिनायकस्य विलसत्तीर्थे मुलब्धोदयः, संजात स मगध्वजो मुनिवरः प्राप्तप्रभासं च यः । ये चैतस्य चरित्रमत्र सुभगं शृण्वन्ति वृण्वन्ति ते, श्रेय श्रीललना धनां विदधते हृद्यन्नति सन्मतेः ।।१२६।। ।। इति श्रीमगध्वजचरित्रं कृतं श्रीक्षेमराजोपाध्यायः ।।
तत्प्रागक्तं सम्यक्त्वं यथा जन्तोः स्यात्स प्रकार सप्रपञ्चः प्रोच्यते-इह गम्भीरापार संसारसागरमध्यवर्ती जन्तुः सकलदुःखाबादप बीजभूतमिथ्यात्व प्रत्ययमनन्तान् पुद्गलपरावर्तान नन्तदुःखलक्षणाननुभय कथमपि तथाभ व्यत्वपरिपाकवशादिगरिसरिदुपलघोलनाध्यवसायरूपेणानाभोगनिर्वतितयथाप्रवलिकरणेनायवर्जानि ज्ञानावरणादीनि कमण्यन्तःसागरोपमकोटाकोटीस्थितिकानि करोति । अत्र चान्तरे कर्ममलपटलतिरस्कृतवीर्यविशेषाणामसुमतां दुर्भेद्यः कर्कशनिविडचिरप्ररूढ मपिलवक्रग्रन्थिवत्कर्मपरिणामजनितो निविडरागद्वेषपरिणामरूपोऽभिन्न पूर्वो प्रन्थिः स्यात् । तदुक्तं-"गंठि त्ति सुदुभेओ कक्खडघणरूढगुढगंठि व्य । जीवरस कम्मजणिओ घणरागदोसपरिणामो ॥१॥” इमं च ग्रन्थि यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्त्येव । एतदनन्तरं पुनः कश्चिदेव महात्मा समासनपरमनिर्वृतिमुखसमुल्लसितप्रचुरदुर्निवारवीर्य प्रसरो निशितकुठारधारयेव परमविशुद्ध्या यथोक्तस्वरूपग्रन्थिभेदं विधाय मिथ्यात्वमोहनीयकर्मस्थितेरन्तर्मुहर्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणानिवृत्तकरणलक्षण विशुद्धिजनितसामोऽन्तर्मुहुर्त्तकालप्रमाणतत्प्रदेशवेघदलिकाभावरूपमन्तरकरणं करोति । अत्र च यथाप्रवृत्त्यपूर्वानिवृत्तिकरणानामयं क्रमो वेदितव्यो यथा--"जा गंठी तापमं गाँठ समइच्छओ हवइ बीयं । अनियट्रीकरणं पुण सम्मत्तपुरक्खडे जीवे ||१॥" "गंठि समइच्छउ ति" ग्रन्थि