________________
।।४५९।।
दीर्यासमितिमान् मुनिः । चचाल मन्त्रियुक् प्राज्ञो राज्ञो मिलनहेतवे ॥ ९१ ॥ नूपस्याग्रे क्रमेणागाद्रागापगमसुन्दरः । मुनिं वीक्ष्य नृपवारु दारुसिंहासनं ददौ ।। ९२ ।। पयोगेन सन्मानदानतः पूजितो मुनिः । उपाविशत् पुनस्तत्र सबसेषु दयापरः ||१३|| पाणिभ्यां नृपतिः पादावादाय स्थितवान्मुनेः । भक्तो विलोकयस्यास्यं लास्यं कौतुकवानिव ॥ १४ ॥ यावत् पुत्रं न वेत्येष लेखनिमितरूपवत् । तदोक्तं मन्त्रिणा नेतः श्वेतवासास्त्वदङ्गजः ॥ ९५ ॥ स्वकुलं निर्मलं सृष्टं कृष्टं जन्मत: फलम् । अनेनेति निशम्याङ्गजागरूको नृपोऽभवत् ॥ १६ ॥ पश्चातापान्महोभत्र स्म दुखरितं निजम् । क्षामितः साधुरातत्वान्नत्वा पादौ पुनः पुनः ॥ ९७ ॥ यन्मयाऽवापराद्ध' तत्क्षन्तव्यमखिलं मुने । युष्मादृशाः क्षमावन्तः सन्तः स्युरुपकारिण: ।। ९८ ।। इदं राज्यमिदं पद्मासनाद्यङ्गीकुरु त्वकम् । एवमुक्ते नृपेणेह नेहते निर्ममो मुनिः ||१९|| संसारभ्रमणोद्विग्नः संविग्नः साधुसत्तमः । नृपानुमतिमादाय ध्यायन् ध्यानं शुभं हृदि ||१००ll जगाम वहिरुद्याने म्लाने कर्मोदये सति । स्त्रीचक्रे चरण पार्श्वे सीमन्धरगुरोरसी ।। १०१ ।। गृह्णाति स्मोज्झिताहारं सारं पष्ठतपः सृजन् । द्वावि दशतिदिन व्यापमाप छास्थ्यसङ्गतेः ॥१०२॥ आरूढः क्षपकश्रेणीमेणीसुत द्रव स्थलीम् । सर्वकर्मक्षयादेव केवलज्ञानमाप्तवान् ||१०३ ।। सुरैर्यधायि सद्वर्णस्वर्णपङ्केरुहं तदा । तस्योपरि स्थितो ज्ञानी ग्लानीकृतरवी रुचा || १०४ ।। भूपोऽयागत्य निःशोकैर्लोकैः सार्धं प्रमोदवान् । चरणाम्भोजमानम्य कम्पकान्तिः पुरः स्थितः ।। १०५ ॥ ज्ञानिना देशनाssधा लब्धानन्तगुणश्रिया । देशनामृतसंतुष्टः पुष्टः पप्रच्छ भूपतिः ॥ १०६॥ भगवशेष वृत्तान्तः वान्तवृत्ते निगद्यताम् । वैरं किमत्र युष्माकं साकमेतेन शृङ्गिणा ||१०७ ।। आचख्यौ केवली प्राच्यं वाच्यं निजभवं ततः । प्राग्भवेऽहं
॥४५९।।