________________
उपदेश
४५६।।
धर्मदत्तराम् । अन्यदा गोकुलेऽहं स हंसवन्मानसे गतः || ३९ ॥ माहिषं वृत्तमाकर्ण्य वर्ण्यमेतच्च दण्डकात् । हननं सर्वजन्तूनां दूनानामह्मत्यजम् ॥ ४० ॥ त्वत्पर्षद्यभिरामायामायासीदेष मत्समम् । याचतेऽद्याभयं देव केवलं युष्मदन्तिकात् ॥४१॥ अग्रस्थायी निराधारः पारवश्येन पीडितः । साम्प्रतं चास्त्यसौ दीनो मीनो याहग्जलोज्झितः ।।४२ || ईदृङ्महिषमालोक्य शोक्ययं ध्यातवान्नृपः । कोऽपि नास्त्युपकारी वा जीवानां भ्रमतां भवे ||४३|| न कचिद्वेति चाधर्मकर्मणां विप्रमोदयम् । जीवा नरकतिर्यक्षु न क्षुधा भ्रमणादमी ||४४ || जीवयोनिषु चाम्लानाज्ञानास्ते संचरन्ति हो । विवेकं दधते नैत्र दैवदत्त विडम्वनाः || ४५ ॥ निगोदेषु परिश्रान्ताः श्रान्ता भूपरिस्वेदच्छेदभेदकदर्शनम् ||४५ || कुर्वन्ति नटवल्लास्यं दास्यं दासा इवानिशम् । भजन्ते बहुरूपाणि पाणिपादाक्षिचेष्टनैः ॥४७॥ लभन्ते सुखदुःखानि खानिकल्पेऽहसां भवे 1 जीवा इति विमृश्यान्तः शान्तवृत्तिर्नृपोऽभवत् ||४ || ददौ जनेषु चादेशं देशमध्येऽस्य कोऽपि यः । महिषस्य वधं कर्ता हर्ता तच्छिरसोऽस्म्यहम् ||४९ ॥ चतुष्पथे चतुर्दिक्षु भिक्षुवन्म हिपस्ततः । सर्वत्र भ्रमति स्मायं सायं प्रातदिवा निशि ।। ५० ।। भुङ्क्ते पिबति च स्वैरं स्वैरं शेते व तिष्ठति । क्रीडनं कुरुते स्वं रं स्वैरमायाति याति च ॥ ५१|| परिभ्रम्यैकदोद्याने मानेन परिपूरितः । कुमारी बलवत्कोटीकोटीराभो मृगध्वजः ॥५२॥ प्रतोत्यग्रे समायातः पातकोपरि बज्रधीः । दृष्टीस पतितस्तस्य पश्यतीहरवत्पशुः ||५३|| तद्दर्शनसमुद्भूत नूतनक्रोधसङ्गमः । दधात्रे खङ्गमादाय न्यायमुक्तः स राजसूः ॥५४ || भटैर्नवा पदावृक्तं भुक्तं स्यान्मृत्यवे विषम् । नृपाज्ञालीपनं कोपात्रोपादेय कुमार भोः ।। ५५|| जीवहिंसाऽत्र व प्रेत्य भेत्यसङ्घ सुखोदयम् । अश्रुस्वेति शुभालापं पापं धृत्वा
सप्ततिकाः
।।४५६॥