________________
॥२५॥1
शीलकलङ्काशङ्कापट्टालेपेन यो हि मलिनमनाः। आसीदविदिततत्त्वः सोऽपि श्रेष्ठी भृशं मुमुदे ।। १६९ ।। धन्योऽहमस्मि यस्येदृशी कृशीभूतशीलकालुष्या । निर्मायाऽजनि जाया सचछायातुलितवनवीथी ।। १७० ।। सर्वसामबलानाममला ति वदनपङ्कजं विदधे । इति पुरपरिजनयोषिन्निवहैरुत्कीयमानगुणा ।। १७१ ।। समाजगाम सुदती मनस्यमन्दं प्रमोदमादधती । ददती दानममानं सन्मानं धार्मिकेष्वददात् ।। १७२ ।। कृत्वाऽग्रतः सती तामवनीपतिरुत्सव वर्बहुभिः । चैत्यनमस्यामकरोजिनधर्माद्भाविनीं विधिना ॥ १७३ ।। सम्यक्त्वशीलनिश्चलचेता नेता नृणामभूनितराम् । तच्छीलमहामहिमाप्रारभारमपारमालोक्य ।। १७४ ।। तामभिवन्द्यावद्यापनोदिनीं मोदिनीं परिजनस्य । भूमिपतिनिजसदनं संप्राप विपापहृष्टमनाः ।। १७५ ।। श्रेष्ठिधनावहमुख्या दक्षाः पौराः सुशीलमाहात्म्यम् । परिभाव्य भेजिरे खलु परबनितारमणमति विरतिम् ॥ १७६ ।। रोहिण्युज्ज्वलशीलप्रतिपालनलालसाऽलसा दुरिते । देवगुरुधर्मरक्ता तथा विरक्ता भवात्सुखं तस्थौ ।। १७७ ।। सा प्रतिपाल्य निजायुः प्रनिपूर्ण शुदधर्ममाराध्य । आराधनां विधाय च सम्यग्बुद्धधा मन:शुद्धया ॥ १७८ ॥ प्रान्ते विहितानशना व्यसनाप्तावप्यनातमिथ्यात्वा । त्रिदिवपदवीमवापद्व्यापद्ध्याप्त्या विनिर्मक्ता ।। १७९ ।।। भक्त्वा भोगान् विविधान् वैबुधभवसंभवानजातीयान् । नैःश्रेयसी गतिमपि प्राप्स्यति शीलानुभावेन ।। १८० ।।
शीलप्रभावेन यशः समुज्ज्वलं, शीलप्रभावाज्ज्वलनं जलं भवेत् स्थली भवेद्भरिपयाः पयोनिधिस्तत्कि न यच्छीलगुणेन जायते ।। १८१ ॥.
॥२५