________________
स
उपदेश- तदनु शुचिशीललीलावती प्रतीतार्हताहंतरधर्मा । दुर्गारूढा प्रौढामिति वाणीमाह साहसिनी ।। १५५ ॥
यद्यास्ते मम शीलं निश्चलमकलङ्कमद्य यावदहो । चेतःकायवचत्रिकशुद्धघा सम्यक्तयाऽऽराद्धम् ।। १५६ ।। गगनोत्तुङ्गतरङ्गे गङ्गे सङ्गेन दलितकालुष्ये । स्वाम्भःपूरप्रसरं संहर दरमपहर नगर्याः ।। १५७ ।।
इत्याख्याय सती सा करकमलेनारपसज्जलं रबार : बागल्सकलं अलिलं ननाश पवनादिवाभ्रभरः ॥ १५८ ।। ॥२४॥
विषमिव जागुलविद्याऽतिशयात्सूर्यादयादिवोस्तमः । तत्करसंस्पर्शवशाज्जग्मुः सर्वाणि वारीणि ॥ १५९ ॥ शीलद्रुमरोहिण्या: पुरीजनानन्दचन्द्र रोहिण्याः । गुणवर्णनमुखरत्वं बभाज सोऽपि पूर्लोकः ।। १६० ।। कृतपण्या मैपण्यातिशयात्किम् भारतीयमवतीर्णा । मतिमती कल्पलता स्त्रीजातो किमृदयं प्राप्ता || १६१ ।। नास्याश्चरणनमस्या कस्याघमगाधमाशु नाशयति । सद्गुणणितिरमुष्याः सौस्याय न कस्य जायेत ।। १६२ ।। जय जय महासतीव्रतधारिणि दुःखौधवारिणि जनानाम् । परमप्रमोदकारिणि निस्तारिणि नगरलेोकस्य ।।१६३ ।।
तव शोलरत्नममलं समलङ्करणं समस्तवनितानाम् । यन्निर्दूषणभूषणवशतःसन्मान्यताऽत्र भवेत् ॥ १६४ ।। For किं कीत्यते भवत्याः सत्याः सत्यार्जवप्रगुणमत्याः । प्रससार विश्वविश्वे सौरभ्यं यद्यशोराशेः ।। १६५ ।।।
स्त्रीजातिरत्नतुल्या कुल्या करूणासुधारसण्याः । साध्वाचारवतीयं जयति जगत्युत्तमा साध्वी ।। १६६ ।। इति जनशतकृत गुणवत(ण)नमात्मीयमात्मकर्णाभ्याम् । शृण्वानाऽपि न गर्व स्वमनसि धत्ते मनागपि सा ।। १६७।। सन्मानिता नपतिना नानाविधरत्नकाञ्चनार्पणातः । त्वमसि स्वसाऽस्मदीयाऽतः परमित्युक्तिमुक्तवता ॥ १६८ ।।
||२४