________________
॥२३॥
हा देव देव जीवनपरं हि यज्जीवसंहतेरभवत् । तजीवनमपि जीवान्तकृत्कथं निर्ममे विधिना ॥। १४१।। किमु कुर्मः क्व नु यामस्त्रस्ताः कस्याश्रयाम इह शरणम् । मरणं तोरायातं ननाश खलु जीवितव्याशा || १४२ || इति जनशतवदनोद्गत दीनश्वाकर्णनात्मकरुणात्मा । दुर्गोपरि झटिति महीशिता सतावञ्चटित्वाख्यत् ॥ ११४३ || अहह कथं पुरमेतत्सकल सलिल रेल विसर्पद्भिः । मम पश्यत एव जवात्संहियते हा कथं क्रियते || १४४ || स हि कश्चिदस्ति जगति ज्ञाता ख्याताभिधः सुधीरमनाः । यो जगदेतद्रक्षति निःशरणं हीनदीनमुखम् ।। १४५ ।। तावद्गगनेापरि गीदेबी क्लीवीभवत्यवनिनाथे । आविर्बभूव लोकान्निः शोकान् कुर्वती महती ।। १४६।। रोहियन्ति सतीव्रतमादधती गुणवतीतरा सुदती । तामाह्वय बहुमानादसमानां भूपते त्वरितम् ।।१४७।। सा स्वयमेव करिष्यति सुखं हरिष्यत्युपप्लवं सकलम् । किं बहुभिर्भणितः स्यान्मन्त्रयत्वैस्तथा तत्त्रः ॥ १४८ ॥ इत्याकर्ण्य तदीयामुदारवाचं शुचं परित्यज्य । रोहिण्युत्तमसाध्वीमाहूय महादरेणैताम् || १४९ ॥ आचख्यौ क्षितिभर्त्ता स्मर्त्ता तच्छीलसंपदः सपदि । सत्यसतीव्रतधारिणि कारिणि पुण्यस्य कुरु शान्तिम् ।। १५० ।। रक्ष महासति लोकं शोकं समुपागतं मरणभीत्या । सत्याः किमसाध्यं किल जनतायास्त्वमसि जननीव ।। १५१ ।। कापि प्रयाति तरसा किमु दिनपतिदीप्तिमन्तरेण तमः । चित्रकवल्लों हि विना न चक्षुरुदुघटति चावस्य । १५२ ॥ त्वामन्तरेण रोहिणि सुकृतारोहिणि हरिष्यथश्रेण्याः । कः स्याज्जगतस्त्राणं पतितस्योपद्रवाम्भोधी ॥। १५३ ।। इत्युक्ते सा दिव्यं नव्यं सुचि सित्रयमाशु परिषाय । प्रध्याय नमस्कारं सारं श्रुतरत्नकाशस्य ।। १५४ ।।
1: