________________
उपदेश
॥२२।।
स्वीजातिः खलु चटुला पावनादपि सा यदा सुरूपवती । अक्षतशीला सा कथमुद्धरति क्षितिपतेः पुरतः ॥१२॥ गहमागते नरेन्द्र कथमुज्ज्वलशीलता गृहिण्याः स्यात् । मार्जारे तोरस्थे न हि दुग्धस्थालिकाऽच्छुमा ।।१२८।। सुत्पीडितस्य पुरतः सरसा रसवत्यहो कथं तिष्ठेत् । न हि कुसुमिता लताऽपि हि विमुत्पते ष्टपदेनापि ।।१२।। न हि कामी कामिन्या एकाकिन्याः शशीव यामिन्याः । सङ्गतिमेत्य दुगत्मा स शीललोपं विना स्थाना ॥१३०।। इत्याद्यनल्पमानसकुविकल्पोल्लोलमालयाऽऽकुलितम् । आत्मानमुदधिकल्पं चकार रजनीक्षणे श्रेष्ठी ।।११।। तम्याः शीलकलङ्घाशङ्कापङ्कापहारमिव कर्तुम् । कुर्वन् शीतलभाव तदङ्गसंतापविनिवृत्त्यै ।।१३२। तं तर्जयन्निवोजितरावरतोवघोरतरः । अय भापयन्निवा नडिद्झ बत्कारकृत्खड्गात् ।।१३३।। तावदतकित एवाकस्माद्विस्मापयन जगल्लोकम् । आगात्पयोदसमयः शमयन् वनवहिदावभरम् ।।१३४॥ शोलोज्ज्वलतरतेजःपुख्ने सर्वत्र विस्तृते सत्याः । चन्द्राकयोः प्रभाया: प्राधान्यं किमिह तआहे । १३५।। यावत्सप्तादिनी घनवृष्टिः स्पष्टाऽत्र समजनिष्ट भुवि । सर्व कृतमेकार्णवमुवीवलयं पयःपूरैः ।।१३६।। तस्माम्मन्दाकिन्या: प्रससार पयोभरः क्षणेनैव । स्थूलानतिदृढमूलान् वृक्षानुन्मूलयामास ।।१३७।। प्लाध्यन्ते स्म ग्रामा आरामाश्चापि सफलपुष्पभरा: । प्रसते पयःप्रवाहे मनुरतिदुरवगाहतरे ॥१३८॥ नगरं पूर्ण तूर्णं बहिरायातः शतर्ननारीणाम् । नगरद्वाराणि नृपस्तदा रुरोधोद्धरकपांटः ॥१३९।। प्रलयानिलोच्छलजलपूररतिदुस्तरोरुकल्लोलेः । प्रसरणशीलरासीत् पुरमखिलं कलकलाकीर्णम् ||१४०।।