________________
॥२१॥
सुखमसुखरूपमेव हि विषयजमिह तत्त्वतो विमृष्टमहो। काचः किमु दक्षधियां वेडूर्यमति सतां तनुते ।।११।। ये परवनिताविरता निरताः सन्न्यायवर्त्मनि प्राज्ञाः । ते वर्ष्याः कृतपुण्या नैपुण्या जगति विख्याताः ।।११४॥ इत्यादियुक्तियुक्तामुक्तामनया निशम्य मुग्धगिरम् । मोहमहाविषलहरीसंहृतिपीयूषरसकुल्याम् ।।११५।। भूमिपतिः पदकमले लग्नः किल भङ्गवत्सरङ्गमनाः । उद्घटितविवेकोज्ज्वलचक्षुस्तामेवमाचष्ट ॥११६|| त्वं मम जननी जनकः स्वसा त्वमेवासि देवताऽपि गुर. । पुस्योपकारकगि पापनिवारिण नमस्तुभ्यम् ॥११७॥ प्रायश्चपलाचपलाः खियो वयोरूपसंपदोपेताः । दृश्यन्तेऽत्र जगत्यां तासु सुशीलाः पुनविरलाः ।।११८॥ अबला हबलाजातिः सा जज्ञे बलवती सतीव्रततः । गुणवत्याऽत्र भवत्या अत्रभवत्या भुव: पीठे ।।११९ मकरध्वजतस्करतः शीलोज्ज्वलरत्नरक्षिकः भवती । सुन्दर शूरद्रतवति नाम्नाऽस्यबला परं न कृत्येन ।।१०।। त्वन्मतिविलसितममलं यदहं नरकान्धकपमध्येऽस्मिन् । प्रपतनपि सदयतया समुद्धृतः साम्प्रतं सुननु ।।१२।। इटाः कस्य न भोगाः कस्यानिष्टास्तथा वियोगाः स्युः । एकाऽसि त्वं साध्वी परमेका न त्वदन्या ज्ञा । १२॥ इत्यास्तिद्गुणरतुतिकृत्या सत्यापयनिजां रसनाम् । धामाजगाम राजा मानसमिव राजहंसः स्वम् ।।१२।। अमितैर्वाणिज्यशतैः प्रचुरतरं द्रविणमर्जयित्वाऽथो । कतिपय दिवसः श्रेष्ठी धनावहः प्राप निजसदनम् ॥१२४।। प्रेक्ष्य प्रसन्नवदनामनुरागवतीमतीव निजकान्ते । चन्द्रकलामिव जलधिहर्षोत्कर्ष बभार भृशम् ।।१२५।। श्रुत्वा कदाचिदास्याद्दास्याः स्वागारमागतं नृपतिम् । रोहिण्युज्ज्वलशीले मालिन्याशङ्कया व्यथितः ।। १२६॥
A ||२१॥