________________
पदेश
सप्ततिका
२०॥
नवनववसनाच्छादनरम्याम्भःपानमाचरन्नृपतिः सर्वत्राप्येकरसं पयसः समवाप पापमनाः ॥ ९९ ।। तस्माद्विस्मितचेता नेता पृथ्व्याः पृथनसत्तृष्णः । तामित्याह सुधारसहग्गिरा रञ्जयन् हृदयम् ।। १००॥ नानाविधः पिधानः स्थानः किम् भिद्यते रसः सुभगे । सर्वत्राप्येकरसं पयः प्रतीतं मया नान्यत् ।। १०१ ॥ भवदुक्तमिदं सत्यं जानन्नपि देव नैव जानीषे । आलोचय तत्त्वधिया सुधियामग्रेसर माप ।। १०२ ।। यदि न भवति रसभेदः स्थानविविधः पिधानकैश्चापि । तस्किमहा तव नवनवरमणीरूपे मना रमते ॥ १०३ ।। राजन स्वयमेव भवान् विद्वान किमपीह तदपि ते वच्मि । वेषविशेषैर्वपुषः प्रविभासन्ते खियः प्रशस्यतराः ।। १०४ ।। वैषयिकरसस्यापि स्फुरति कथञ्चिद्विभिन्नता किमहो । प्रायः शरीरभाजा परमेतन्माहविस्फुरितम् ।। १०५ ।।। सर्वा अप्येकरसा बशाः सुरूपास्तथाप्यतिविरुपाः । नप निविचारता ते न चारुतामञ्चति नितान्तम् ।। १०६ ॥ सर्वेऽपि मोहवशगाः सत्त्वास्त-त्त्वावबोधमुग्धधियः । विषयव्याकुलिततया शुभाशुभं नो विदन्त्यते ॥ १०७ ।। नवनवरूपाः सुन्दरवेषास्तोषावहा जने योषाः । बहिराडम्बर एष सर्वोऽपि मतिभ्रमं कुरुते ।। १०८ ।। जलधिजलस्य पर्न वेन्धनैरपि घनर्यथा वह्निः । न हि तद्वत्कामसुखै रसुभाजस्तृप्तिमुपयान्ति ।। १०९ ।। को न हि मुह्यति जन्तुस्ताहण्ये रूपसंपदाकीर्णे । ऐश्वर्येऽप्यतिवर्य विषयेष्वतिसरसरूपेषु ।। ११० ॥ दुर्बलबलिनामवनात्त्वमेव जनकोपमोऽसि जगतीश । स्वयमेवान्यायपथे प्रवर्त्तसे यदि हृदज्ञानात् ।।१११।। अङ्गारास्तुहिनकरायदा कदाचित्तमोभराश्च रवेः । अमृताद्यदि विषलहरी तत्कः शरणं शरण्यानाम ॥११॥
॥२०॥