________________
उपदेश
सप्ततिकाः
॥४३६॥
प्रयुक्तं, चित्ते न याबद्दधतेऽह्नि नक्तम् । तावत्तु सर्वेऽपसृताः किलामी, श्रीस्थूलभद्रः स्थित ऊर्ध्वगामी ।।१६०।। आर्येण चाथो तनुताबशिष्टे, ध्याने सति कलारसि नेति पुष्टे । ऊचे स नो मे क्लम आह चार्यः, कालं प्रतीक्षस्व किय. न्तमार्य ॥१६१३॥ यद्वाचना दधि तवाविलम्ब, गुरुं च पप्रच्छ स निबिडम्बम् । क्रियन्मया भो भगबन्नधीतं, स चाणमेरूप मयाह नीतम् ।।१६२।। तवात्र सूत्राणि बभूवुरष्टाशीतिस्त्वथ स्तोकदिनैः पटिछा। तत्पूर्ति रास्ते तव भो भवित्री, सुखेन दुष्कर्मलताजयित्री ॥१६३॥ पूर्वाण्यधीतानि दश क्रमेण, वस्तुद्वयोनान्यमुनाऽश्रमेण । सस्थूलभद्रा गरबोऽन्यदाऽऽक्षा, विहारतः पाटलिपुत्र माताः ॥१६४।। बाह्ये वने तेऽपि च तस्थिवांसस्तानन्तुमायान्ति घनाः पुमांसः । ता यामयोप्ययरत्र यक्षाद्याः स्थूलभद्रस्य हि सप्त दक्षाः ।।१६५।। पृच्छन्ति नत्वा गरुमस्ति कुत्र, श्रीस्थूलभद्राख्यमुनिः पवित्रः । तेनोदिन देवकुले निभाल्यः, प्रीतो गुणन्नस्ति सुकीर्तिमाल्यः ।।१६६।। समुस्थितास्ता गुरुसनिकृष्टाद्भातुनिनंसानिधयेऽति हृष्टाः । समापि साध्व्यस्तदनुप्रकृष्टाचारप्रचारप्रशमैकनिष्ठाः ॥१६७। आगच्छतीर्वन्दन हेतवे सा, विलोक्य सोऽह कृतिपूर्णवेताः । पञ्चाननाकारधरथ जातस्वस्तास्तमालोक्य च तास्त्वरात: ।।१६८।। उपद्रुतोऽयं हरिणा शरीरे, गत्वा वदन्ति स्म गुरोस्तु तोरे । आर्यस्तदाऽहेति वचोऽतिहारि, स स्थूलभद्रो न पुनर्मूगारिः ॥१६९।। आगत्य ताभिः प्रणतोऽनसूयः, श्रीस्थूलभद्राख्य मुनिः स भूयः । तास्तेन पृष्टाः कुशलप्रवृत्ति, यक्षाऽऽह तस्मै सिरियानभित्तिम् ।।१७०।। यथैष दीक्षाग्रह्णादनन्तरं, वलेन पर्वाहण्युपवस्तमुत्तरम् । प्रकारितः सोऽपि ततस्विविष्टपं, प्राप्तश्च मृत्वाऽलिरिवोन्मदद्विपम् ।।१७१।। अयपिहत्याभयभीत चिता, तपःप्रभावादहमप्रमत्ता। नीता विदेहे जिनशासना