________________
।४३३॥
दपाइभल्ल्या, नाङ्गे कृता ये पुरुषाः सशल्याः । गङ्गापयोनिर्मलशीलबद्भपस्तेभ्यो नरेभ्योऽस्तु नमो महद्भवः ।।१२३।। तच्छिक्षितोऽयं स्खलितपतिज्ञः, श्यामाननः पुण्यपथानभिज्ञः । पुनः पुनः संसृजति स्म खेदं, स्मृत्वा गरीयो गुरुगीबिभेदम् ॥१२४।। प्राप्तं करे प्रोज्य मणि रविप्रभं, लातुं व्रजन् काचदलं किलाशुभम् । स्तम्भे स्फिटित्वाऽर्धपथि स्फुटच्छिरा, हा हास्यमाप्तोऽस्मि विधेर्गतिः परा ॥१२५।। पूर्व विधायामृतपानलष्ट, वचोऽप्रमाणं स्वगुरूपदिष्टम् । पश्चात्करोति स्म शुचं वचस्वी, वेश्योपको शागृहगस्तपस्त्री ।। १२६।। मत्तेभवत्सोऽयनमाप धुर्यस्तपोधनोऽभूद्विषये पटुर्यः । स्वदुभरियं हृदि नियतीह, प्रयागपा स्यादगुणोऽप्यनीहः ।।१२७॥ लजन्ति ते सद्गुणकीर्तनेन, श्रिता यके स्युगुरुसाहसेन । | प्रशंसया चानतया तदन्ये, न मान्ति केचिद्वपुषीति मन्ये ।।१२८।। जगाम सद्यः स्वगुरोः समीपे, कुमार्ग सेवाप्रथनप्रतीपे। व्रतेन साधुः स कुकर्म सेनादलं जिगाय प्रविनश्यदेनाः ।।१२९।। आयरभाण्यस्य शरीरपीडाकरा अहिव्याघ्रगजाः सनीडात् । नृणां न हि ज्ञानचरित्रभङ्गप्रदाश्च सम्यक्त्वहराः स्युरङ्ग ।।१३०॥ श्रीस्थूलभद्रो भगवान भीक्ष्णं ह्याकामति स्मासिशिरः सुतीक्ष्णम् । छिन्नः परं नो दमुनः शिखायां, दग्धो वसन्नप्यथ न क्षमायाम् ।।१३१।। तुष्टयाऽथ। नन्देन कदापि दत्ता, निजस्य कोशा रथिकस्य वित्ता । श्रीस्थलभद्रस्य तु सा प्रशंसां, चक्रेऽधिका नो दधती रिरंसाम् ।।१३२।। सन्त्यत्र लोकेऽतिघना महीनाभित्रप्रदाः पञ्चजनाः कुलीनाः। नास्ते न भूतो न च भाबुकोऽपि, श्रीस्थूलभद्रेण समोऽत्र कोऽपि ।।१३३।। सदाकृततद्गुणमंत्रजापा, सा तं तथा नेपिचरत्यपापा । स्वमन्दिराशोकवनेऽन्यदा सा, तेनाथ नीता बिलसद्विलासा ॥१३४।। स्वकीय विज्ञानविकाशनाय, प्रोद्दामसौभाग्य समर्जनाय । लातुं करारोपितचाप
|४३