________________
१४३१॥
चतुर्मास्यन्ते गुरूणां निकटे सुधर्मा । अभ्युत्थितैस्तैः स्तुतमस्य सत्त्वं, त्रिः प्रश्नितं दुष्करकारत्वम् ।।१९।। तदा त्रयः पूर्वनुतास्तु बाचंयमा मिथस्ते वुवते स्म वाचम् । कृत्वेति मन्त्रिप्रसवो यदार्याः, स्निह्यन्ति लोकव्यवहारवार्याः ॥१००।। विलोक्य वक्र मनुजाः सजे युर्ललाम चाप्यादरमाचरेयुः । क्षपन्ति गाड्यमयेऽपि भिक्षा, पात्रे न कुर्वन्ति मनाग्विवक्षाम्
१०१।। तत्र स्थितोऽसौ स्ववपुःसमाधिना, तथापि जातः स्तवनोचितोऽधुना। यत्यन्यवर्षे मृगराड्गुहास्थितः स्थास्यामि वेश्यागृह एवमुद्यतः ।।१०२।। अभिग्रहं लाति तदा निषिद्धस्तैरार्यवयन शृणोत्यशुद्धः । गत्वा ययाचे वासति पणस्त्री, तदोपकोशाऽस्य ददौ नृशस्त्री ॥१०३।। स्वाभाविकोदारिकदेहभूपिता, धर्म समीपेऽस्य शृणोत्यदूषिता। तदङ्गसङ्ग स विधातुमुद्यतश्चाटूनि वक्तीच्छति सा न सत्त्वतः ।।१०४।। प्रबोधनार्थ भणतोति तस्य, प्रदेहि किञ्चित्स च बक्ति वश्यः । ददामि कि साह च लक्ष मेकं, प्रदीयतां भो मम सातिरेकम् ।।१०५।। तत्प्राप्त्युपायं शृणु भूप आस्ते, नेपालदेश कृतपर्युपास्तेः। पुंसः प्रदत्ते जिनधर्म्यतुल्यं, स कम्बलं सम्प्रति लक्षमण्यम् ।।१०६।। देयं तदेवेति निशम्य निर्गतस्तं प्रार्थयामास नृपं स दुर्गतिः । सत्कम्बलं प्राप्य च बंशदण्डके, क्षिवा सरन्धे बदले ह्यखण्डके ।।१०७॥ एकत्र चौरः सरणिनिवद्धा, पक्षी सरस्थो बदतीति बुद्धः । लक्षं समायाति तदा च चौरस्वामीक्षतेऽमु यतिमेव घोरः ।।१०८।। तस्मिश्च पश्चाद्वलिते स पक्षी, कोकूर्यते तत्र कुभक्ष्यभक्षी। याति स्म लक्षं पुनरेत्य तेन, प्रेक्ष्यष उक्तो यतिरद्भुतेन ।।१०९॥ तवाभयं दत्तमहो मया परं, सत्यं निवेद्यं त्वयका ततः परम् । यथास्थितं तच्चरितं तदग्रतः, स ऊचिवान् संमदतः समग्रतः ॥११०॥ पणस्त्रिये कम्बल एष कष्टतः, प्रामोऽस्ति नेपालनुपात्स्वदिष्टतः । लात्वा वजन्नरम्यथ वा