________________
।।४२५
गङ्गा तदा सत्यमिदं न पृष्टौ । बिलोकयिष्याम इदं हि कल्ये, राज्ञा प्रपन्नं कुतुकेऽत्यतुल्ये ॥२३॥ नियोगिना प्रत्ययितो मनुष्यः सन्ध्याक्षणेऽभाण्यथ लन्धलक्ष्यः । प्रच्छन्नमाथाय विलोकनीयं, वृत्तं द्विजस्याम्बुनि निन्दनीयम् ।।२४॥ संस्थापयत्यम्बुनि यदि जन्मेच्छया त्वमानीय प्रदेहि तन्मे । तेनापि गत्वा जगृहेऽस्य दीनाराणां ततः पोट्टलिकाऽतिपीना ।।२५।। एत्य प्रभाते नरपत्यमात्यो, तत्र द्विजं पश्यत एव जात्यो । द्विजोऽपि गङ्गाम्बुभरे सुखेन, प्राविक्षदीड़ा कलयन्मुखेन ।।२६।। प्रान्त स्तुतेर्यन्त्रमिदं पदाभ्यो, संघट्टयामास मुहुः कराभ्याम् । दत्ते न किन्चित्स ततो विलक्षः, पुरो जनानामभवत्सलक्षः ।।२७।। राजावदत्येष तु दुष्टकुम्भीनसोपमो बक्रतयातिदम्भी । स्वाचारदारूत्करधूमकेतुर्यलीक कीति गरान्तरेषु ॥२८॥ स्वयं नृपाग्रे सचिवेन चाविष्कृतं तदीयं धनमप्रभाबि । राजादिलोकस्त मथो जहास, रुरोष मन्त्रिण्यय विप्रपाश: ।।२९।। चिन्तयति च----
समाहतं यच्चरणेन पुंसां, मूर्धानमारुह्य ददाति खिसाम् । मध्यस्थतां संदधतोऽपमाने, वरं मनुष्याद्र ज आप्तहानेः ।।३०।। स से सिछद्रमालोकयितुं प्रवृत्तस्तन्मन्त्रिणो दोपभरैरकृत्तः । मन्त्र्यन्यदाऽसौ सिरियाविवाह, विधातुमुल्कः कुशलाम्बुधाहम् ।।३१।। नरेन्द्रदेयानि घनायुधानि, च्छन्नं गहे कारयतीप्सितानि । एतचिरावजित मनिवास्या, प्रोक्त द्विजायाभिकदारुवास्या |१३२॥ प्राप्त छलस्तण तदा द्विजातिस्त्रिके चतुप्केऽध्वनि मन्त्र्यरातिः । शिशूनिदं पाठयति स्वतस्तु, द्विप्टो ददन्मोदकमुख्यवस्तु ।।३३।। किञ्चिजनः सम्प्रति वेत्ति नासो, मन्त्र्येष यन्नन्दनृपे परासौ । कृते सति स्वं सिरियाङ्गजातं राज्ये ऽस्ति संस्थापयिता धिया तम् ।।३४।। एहु लोय नवि जाणइ जं सिगडाल करिस्सइ । नंदराय मारेविकरि सिरिय उ रजि ठवि