________________
||४२३॥
धम्मम्मि य अणायरो ७ । जोगाणं दुप्पणोहाणं ८ अट्टहा वज्जियवउ ॥२॥” इति । इतिकारणात्प्रमादः अज्ञानरूपः । स यथा श्रीस्थूलभद्रमुनिना स्थानत्रये कृतस्तथाऽन्य/धन: साधुभिः "समयं गोयम मा पमायए” इति श्रीवीरबचश्चित्ते संस्मत्य कहिचिन्न कार्य: । प्राणी तावत्प्रमादे एकान्तनिमग्न एबास्ति ये स्वप्रमादिनस्त एव स्वकार्यसाधका दुःखबाधकाश्च स्यु: । अथ प्रमादाचरणस्थानज्ञापने स्थूलभद्रदृष्टान्त उच्यते--
जगत्प्रसिद्धः प्रविभाति नन्दः, क्षितीश्वरः कीर्तिलतै ककन्दः । मन्त्रिप्रधान: सगडाल आसीत्तस्योत्तमः पाटलिपुत्रबासी ॥१।। समुल्लसत्कल्पकवंशकेतुर्मेधाचतुष्कोपचयक हेतुः । आसीत्स दुर्नीनिविभेदकारी, श्रीनन्दराज्यप्रथितोऽधिकारी ॥२॥ श्रस्थूलभद्रस्तनयः प्रधानस्ततोऽपरोऽभूत्सिरियाभिधानः । जक्षादिकाः सद्गुण रूपवत्यः' पुन्योऽभवन् सप्त गृहेऽस्य सत्यः ।।३।। जक्षा द्वितीयाऽजनि जक्षदिन्ना, भूता तुरीयाऽपि च भूतदिन्ना । सेणाऽभिधाना प्रबभूव वेणा, षष्ठी सुतार सप्तमिका च रेणा ।।४।। गाथापदश्लोकसमूह एकद्विश्यादिकोक्तिक्रमसातिरेकः । मुखे समायाति कुमारिकाणां, तासां मनीषोदयधारिकाणाम् ।।५।। जिनेन्द्र पूजागुरुपन्नमस्या शास्त्रार्थविज्ञानवृप प्रशस्याः। घना: प्रयान्ति स्म सुखेन तासा, सुवर्णसंकाशशरीरभासाम् ।।६।। कविद्विजन्मा वररुच्यभिख्यस्तत्रैव चास्ते निवसन् सुदक्षः । अप्टोत्तर काव्यशतं विरच्य। क्षमापं सदा स्तौति भयं विमुच्य ।।७।। तत्काव्यभक्त्युल्लसितोऽविगानं, समोहते दातुमभीष्टदानम् । नृपः परं नो | सगडालसृष्टश्लाघां विना यच्छति तस्य तुष्टः ।।८।। द्विजन्मना तेन ततः कलत्रं, मन्त्रीश्वरस्यास्य कृतं स्वमित्रम् ।। सत्पुष्पदानादिभिरर्चवित्वा, मायां स्वचित्ते परिवृध्य ननम् ।।९।। मन्त्रिस्त्रियोक्त बद विप्न सत्यं, मया समं ते किमिहास्ति