________________
उपदेश
सप्ततिका.
४१२।।
गतं व्यधाच्च तम् ।।१४९।। पेटाइपि सा तेन हि कीलिकाभिहिं जटित्वा त्वयसो घनाभिः । सद्वापरयन्त्रण नियन्त्र्य गर्भागारान्तरेऽमोचि सुगन्धगर्भा ।।१५०॥ द्वारे प्रदत्तः सुदृड: कपाटस्तरकोटिमूल्यो रचितो बराट: । बन्धन्निजान् क्षामितवा नियोज्य, श्रीजैनधर्मे वसु मुक्तभोज्य: ।। १५१।। त्रिदण्डयरण्येऽस्ति स गोकुलास्पदे, गत्वेङ्गिनीमृत्युकृदयसंपदे । ज्ञात्वा पूनस्त परमार्थमैतया, ध्यात्वा नमोऽवाच्यहितं कृतं स्वया ।।१५२।। पित्रा कृलस्ते यदसौ सगौरवस्त्थया कथं केसरिणेब कौरवः । अवापितो भुरिवं पराभतरं, मन्मातृहन्तेत्यवदत्स लाघवम् ।।१५२॥ धाच्याह माता यदि भारिता नी, स्यातेऽना धारिमरत्नसानीः । तदाऽभविष्यत्तव संभव कुतः, साम्बा स्वयं ते विपभोज्य सङ्गतः ।।१५४। पूरः पितुस्से मृतिमाप भाविता, विषेण तस्याः क्षयमेष्य धावता । विदारयित्वोबरमाश्वनेन भो, निष्कासितस्त्वं धृतजीवितः प्रभो ।।१५५।। विनिर्गतस्याप्युदराबहिर्यकः, संलग्न आसी द्विषबिन्दुरुग्रकः । शीर्षे मपीवर्णमयो निगद्य से, त्वं बिन्दुसारस्तदिहारितवसे ।।१५६।। राजतदाकर्ण्य विषण्णहृद्रसाढयया विभूत्याथ समाश्रितोऽञ्जसा । चाणाश्यपार्श्व गतबानिरीक्षित:, स्थितोऽपसङ्गः स करीषमध्यतः ।।१५७॥ पुनः पुनः क्षामित आदरेण, श्रीडामनाभेन नरेश्वरेण । उक्त समागच्छ च राज्यचिन्तन, विधेहि सर्व स उवाच भूधनम् ।।१५८।। अहं गृहीतानशनश्च सङ्गत्यक्तः शुभध्यानधरान्तरङ्गः । सुबन्धुदुश्चेष्टितमाह नो पर, ज्ञात्वाऽप्यसो भूपपुरस्तदोद्धम् ।।१५९।। स्मृत्वा विपाके कटु चाप्रियंकर, पैशून्यमेतद्गुरुदुःखमन्दिरम् । भालस्थलारोपितसत्करेण, सुबन्धुनोचे नृपतिः परेण । १६०॥ करोमि भक्ति भवतामनुज्ञया, चाणाक्यनाम्नः स्वहितैकलिप्सया । दत्त्वा ह्यनुज्ञामगमत् क्षितीश्वरः, क्षुद्रः सुबन्धुः कलुषीव धीवरः
11४१२।।