________________
उपदेश
सप्ततिका.
1४००
॥२३॥ देवप्रभावाद्भरतस्य पारं, लब्ध्वा नपाहारमुपैति सारम् । कदाप्यसो चेन पुनर्नरत्वं, संप्राप्यते भ्रष्टमिदं हि तत्त्वम् ॥२४॥ इति भोजनोपरि कथा ॥१॥
भूणिनीकर्णसुबर्णकुण्डलं, विख्यातमारते ननु गोल्लमण्डलम् । ग्रामस्तदन्तश्चणको विभाति, श्राद्धोऽरित तस्मिश्रणको द्विजातिः ।।१।। तस्यैकदा केऽपि गृहेऽन गाराः, स्वैरं स्थिताः सृष्टमहाविहारा: । कदाऽप्यभूदस्य सुतः सदाढः, स पातितः साधुपदोः श्रिताठ: ।।२।। प्रोचे मुनीन्द्रर्भवितैष सम्राट्, प्रावृक्षणे वाऽम्युदितोऽत्र नभ्राट् । ध्यात्वेति मा दुर्गतिमेष गन्ता, घृष्टास्तदानीं जनकेन दन्ताः ।।३।। उक्त गुरूणामथ तैय॑वेदि, भाव्येष विम्बान्तरितस्तदेति । जग्राह बाल्यापगमेऽथ विद्याश्चतुर्दशाप्येष सगद्यपधाः ।।४।। स बालकालेऽपि समाददीत, श्रद्धासुधर्म कलयोपवीतः । लावण्यशोभावहमाप यौवनं, यथा प्रसूनोपचय मधी वनम् ।।५।। चतुष्टयं वेदगतं पडङ्गी, मीमांसनं कर्कशतर्कभङ्गी। श्रीधमशास्त्रं च पुराण विद्या, चतुर्दशैता: प्रभवन्ति विद्याः ।।६।। ज्योतिस्तथा व्याकरणं च कल्पश्छन्दश्च शिक्षा समयोऽप्यनल्पः । निरुक्तयोऽङ्गानि षडप्यमूनि, प्रोक्तानि शास्त्रेषु बुधैः पटूनि ।।७।। पित्राऽस्य पाणिग्रहणं ब्यधायि, द्विजन्मपुत्री किल पर्यणायि । भ्रातुविवाहावसरे स्वमातुः, सा प्राप्तवत्यावसथेऽन्यदा तु ।।८।। लक्ष्मीवता समसु तद्भगिन्यः, संजात वत्यः किल सन्ति जन्यः । नानाविधालडकृतिदीप्ति मत्यस्तत्राययुस्ता अपि रूपवत्यः।।९।।समें समस्तः स्वजनोऽपि ताभिजंजप्यतेऽज्यादर तोऽखिलाभिः। एकाकिनी साऽप्यवगण्य मानाऽनलकृता तिष्ठति यमाना ।।१०॥पुंसः प्रसङ्गोऽतियरं जिघांसोः शून्य प्रदेशस्य च भूरिपांशोः । कृता न गोष्ठी परमात्र निर्धनैः, संपद्यतेऽभीष्टविधायिनी जनैः ।।११॥ स्वपल्यपि क्षीण
||४००।