________________
उपदेश
|३९४||
सुधास्वादादानन्दाभ्युदयाधिकः। नत्वा ज्ञानिन मप्राक्षीत्स निजाधमजन्मताम् ।।२६। धिग्जन्मजन्मारभ्याख्याद्यद्यथा
वृत्तमन्वभूत् । गणिकात्मजपर्यन्तं केवलज्ञानवान् मुनिः ।।२७।। उद्भताभङ्गवैराग्यभावना भावितात्मना । ययाचे भग& वत्पाचे प्रमज्या मोक्षसाधिनीम् ।।२८।। दीक्षणानहदुर्जातिरपि पापपराड मुखः । एष आराधको भावीत्यत्रेत्यारोपितो
व्रतम् ।।२९।। सम्यगाराध्य चारित्रं बहुकालमकल्मषः । पादपोपगम भेजेऽनशनं स्वायुषः क्षये ॥३०॥ स्वर्गे स्वगित्वमाप्तोऽसौ तुयें माहेन्द्रनामनि । विदेहे नभवं प्राप्य सिद्धिसौधमवाप्स्यति ।।३१।। जाइमएणिक्केण वि पत्तो डुंबत्तणं दियवरो वि। सचमएहि कहं पुण होहिति न सव्वगुणहीणा ।। ३२।। ।। इति जाति मदे विप्रकथानकम् ।।
अथ कुलमढे श्रीबीरदृष्टान्तः श्रीआदिनाथः प्रथमो जिनेन्द्रस्तस्थावयोध्यावहिरानतेन्द्र: । जगाम चक्री भरतः प्रकाम, तमुद्यतो नन्तुमिलाललामम् ।।१।। जीवो मरुदैत्य नृणां स नत्वा, प्राक्षीत्सभायां तु विना जिन त्वा । कोऽप्यस्ति किं भावुकतीर्थनेताऽवसपिणीभूरपरः प्रचेताः ।।२।। ऊचे प्रभुस्ते तनयोऽस्ति पारिवाज्यं दधानोऽयमहो बिसारि । भावी मरीचिर्भरते त्रिपष्ठः, पूर्वो हरिब रिदवाम्बुवृष्टिः ।।३।। विदेहमूकाभिधपुर्यवक्री, कृतस्वदृष्टिः प्रियमित्रचक्री । भावी ततः प्राप्तभवाब्धितीरः, सोऽयं चतुविंशजिनोऽपि वीरः ।।४।। श्रुत्वेति चक्री भरतोऽपि जात्वाख्याति स्म तस्यान्तिक एप यात्वा । चक्रपर्धचक्रित्वमिदं न मन्देहितां परिव्राजकतां च वन्दे ।।५।। कि तूदित स्वं भवितेति वेत्रा, प्रीतं बचोऽन्त्यो भगवान् स्वपित्रा । आर्हन्त्यमेतत्त्रिजगत्सु बाद्यं, बन्दे ततस्त्वामधुनाऽप्यनिन्द्यम् ।।६।। प्रदक्षिणीकृत्य तदा त्रिवारं, तकं नमस्कृत्य