________________
उपदेश
||३८६ ॥
पश्चमवर्षे घनप्रकर्षेण । इयती वृद्धिर्बुद्धिप्रागल्भ्यान्यया विदधे ||२६|| कतिचिद्दिनपर्यन्ते श्रेष्ठी स्वशातिजातिमामील्य । विश्वा भोजनाद्यं वधूचतुष्कं समाकार्यं ||२७|| प्रार्थितवान् शालिकणान् श्रीरश्रीरिव यतस्ततो लात्वा तानार्पयत्कराजे श्वशुरस्याध्यक्ष मन्येषाम् ||२८|| श्रेष्घाचष्टे मां प्रति तानुपलक्ष्यातिलब्धलक्ष्यत्वात् । मद्दत्ताः खलु नैते तत्त्वं वद साऽभ्यधात् स्वामिन् ॥ २९ ॥ | ते तुज्झितास्तदेव हि लक्ष्मी राख्यन्मयाऽऽशिताः क्षणतः । लात्वाssभरणकरण्डाना जनानन्दिनी प्रददौ ||३०|| धन्यंमन्या धन्या विज्ञा विज्ञाय समयमा हतम् । पञ्चापि सप्रपन्चाः स्वामिस्ते जज्ञिरे रुचिराः ||३१|| भूगृहकोठागारान्तनिक्षिप्ता मदीयजनकगृहे । सन्ति ततस्त्वरितममी शकटोष्ट्रख पैहिर्षः ||३२|| आनाय्य गृहं पूरय चूरय दुर्भिक्षपातभीभारम् । तब स तथैव हि तद्गुणसंवीक्षणप्रीतः ॥ ३३॥ प्रणिगद्याभिप्रायं पप्रच्छ ष्ठिराद् स्वजनवर्गम् । किं साम्प्रतमत्रोचितमाह स्मस यूयमेव जानीथ ||३४|| आख्यदथ ख्यातयशाः प्रथमोज्झनधर्मिणीयको ज्झतिका रक्षा गणोत्सर्जनपरायणा वसतु मद्गहै ||३५|| शाकापाककणसंशोधन दलनादिभुक्तिसामग्री कार्या हि भोगवत्या रसनापरिभोगमुखवत्या ||३६|| श्री शालिशा लिकणपश्वकरक्षणसंस्फुरद्विचक्षणता । मणिरत्नाद्यमशेषं रक्षतु खलु रक्षिताख्यवधूः ||३७|| आज्ञाकृत्सूर्यायाः शालिकण गुणवृद्धिदर्यायाः । सर्वोऽपि गृहजनः स्ताद्रोहिया: सुगुणरोहिण्याः ||३८|| कौटुम्बभारमारोप्य श्रेष्ठी स्वस्नुषाचतुष्केऽसौ स्वयमारराध धर्म जैनमशर्मापहमजस्रम् ||३१|| अस्त्वेवमित्युदीर्य प्रययौ स्वं धाम तत्सगीनजनः । मेधाविशिरोरत्नं धन्यं धन्यं हि भन्वानः ॥४०॥ अत्रान्याऽप्युपनयगी स्पष्टा पष्ठाङ्गमध्यभागेऽस्ति । जम्बूपुरः सुधर्मस्वामिकृता विस्तरेणैवम् ॥ ४१ ॥ धन्यस्तथा गुरुरथी
सप्ततिका.
।। ३८३ ।।