________________
।।३८५ ।।
बुद्धा वोढव्या भव्याsभव्याऽथवा नवोपायात् । मम गृहृतोऽपि यस्मादुक्तं हृदि स्फुरति नैचिन्त्यम् ॥ १०॥ तस्माद्युक्तमनूप परीक्षणं स्वजनसाक्षिकममूषाम् । इत्थं विमृश्य मनसि श्रेष्ठी श्रेष्टीकृतात्मपदः ||११|| उद्दण्डमण्डपाडम्बरमुइरमारचय्य निजगेहे । स्वज्ञातिजातिजनताममितामामन्त्रय भुक्तिकृते ||१२|| तदनन्तरमेष पुनर्नूतनताम्बूलपुष्पफलदानैः । सम्मान्य पौरवर्गं तत्प्रत्यक्षं स्पाः सर्वाः ||१३|| आहूय तत्कराजे समर्पयामास पञ्च शालिकणान् । वस्त्रन्थिनिवद्धान् पृथक् पृथक् व्यक्तमाख्यच ||१४|| याचे यदाहमेतास्तदा प्रवेया अवश्यमस्मभ्यम् । ताः प्रतिपद्य तथेति स्वस्थानमगुः सुगौरविताः ।। १५ ।। एतत् किमिति वितर्क कुर्वाणो जनगणोऽयमद्गेहम् । को वेत्ति कस्य चेतस्तत्त्वतत्त्वं वोऽपि ।। १६ ।। प्रचुराः पुराकरादिषु शालिकणा रक्षणं हिमेनेवाम् । वराह मुषष्ठीपिप्यामि ||१७|| इत्यालोच्य प्रथमा प्रोज्झाञ्चक्रे निरादरत्वेन । न हि गौरवं गुरूणां वचने खलु मन्दबुद्धीनाम् ||१८|| निस्तुपतामापायाता द्रुतं भक्षा द्वितीयकया । श्रेयस्कराः कराव्जप्रत्ता एते स्वयं गुरुणा ||१९|| उज्ज्वलचेले बद्ध्वा तृतीयवध्या महाप्रयत्नेन । भूषणकरण्डमध्ये प्रगोपितास्तातदलतया ||२०|| स्फुरद्गुरुतरचातुर्या तुर्या धुर्या समस्त कार्येषु । आकार्य बन्धु वर्ग पञ्च कणानुत्वणान् प्रददौ ॥ २२ ॥ एते प्रवर्द्धनीयाः पृथक्तथा संविधाय केदारम् । कार्यमिदं विस्मायें न हि सोदर्यः सुवासिन्याः ||२२|| इत्युक्तास्तेऽथ निर्ज ग्राममगुः प्रावृषि प्रवृष्टेऽददे । लघुकेदारे प्रसरञ्जलयोगात् प्रोप्तवन्तस्तान् ॥ २३॥ उत्खाय ततोऽप्यारोपितवन्तस्ते पृथक्तया क्षेत्रे । प्रथमे वर्षे प्रस्थः शालिकणानामभूत् पूर्णः ||२४|| aat द्वितीये शालीनामाढकः समजनिष्ट | खारी तृतीयवर्षे कुम्भः प्रवभूव सुर्येऽथ ||२५|| कुम्भसहस्राण्यभवन्
।। ३८५ ।।