________________
उपदेश
।।३८४।।
अन्नाया दोसाणुभावा, मुणंति तत्तं न हु कि पिपावा | भवंति ते दुक्खदरिद्दीणा, परम्भि लोए सुहविप्पहीणा ||६०||
व्याख्या- अज्ञानताया दोषस्तस्य वशस्तस्य__ अनुभावात्तन्माहात्म्यात् मुर्णति जानन्ति तत्त्वं परमार्थ न हु इति पालङ्कारे किमपि पापा: पापकवर या किटं दिशमाह - भवन्ति तेऽज्ञानवशंवदा अत एव अधर्मिणः दुःखदारिद्रयाभ्यt दीना अत्र भवे परत्र जन्मनि च सुर्खेविप्रहीणाः स्युः एतत्सर्वमज्ञातुता जृम्भितनिति काव्यार्थः ॥
अत्र वधूचतुष्कज्ञातमाख्यायते-
अत्र हि राजगृहे गजवाजिविराजिरम्यराजगृहे । श्री मगधदेशपेशलमही महीयोऽङ्गनाभरणे ||१|| तत्रासीद्दासीकृतधनवल्लोकः सदापि गतशोकः । श्रेठी धनो घनोपमदानः सन्मानभूर्नृपतेः ॥ २॥ तञ्जायाऽजनि भद्रा निर्मितभद्रा कुटुस्ववर्गस्य । अखिला अवलाः स्वकलाविलासरूपाचया विजिताः ||३|| चत्वार इव पुमर्था ध्वस्तानर्थास्तथाऽजितम हार्थाः | अजनिषत चतुः सङ्ख्याः सङ्खघावद्वेणितास्तदङ्गाः ||४|| धनपालस्तत्रायस्ततो द्वितीयो बभूव भ्रमदेव: । धनदस्तृतीयकोऽजनि धनरक्षितनामकस्तुर्यः ॥५॥ भार्या आर्याचरिता आसनेषामथो मिथोद्वेषाः नेपालङ्कृतकाया निर्माया: प्रविलसच्छायाः || ६ || श्रीराद्या लक्ष्म्याख्या परा तृतीया धना च धन्याख्या । एता कुटुम्बभारोद्धरणैकधुरंधराः प्रभुः ॥७॥ अथ कतिचिद्दिवसान्ते स्वान्ते श्रेष्ठी विमर्शमित्यकरोत् । तनुजा ननु जात्यैव हि वर्तिप्यन्ते सुखे - ||८|| काचिद्वधूः सुधूर्वभावं यदि सप्रभावमावहति । कौटुम्बभारविषये तदा भवेयुस्तरां सुखिनः ||१|| सा
सप्ततिका.