________________
उपदेश
सप्त निका
॥१८॥ IAN
योषिजाति तिप्रशंसनीया जनेऽपि महनीया । यदि सापि न शीलवती तदेकतः काञ्जिकं क्वथितम् ।। ७१ ॥ इति निश्चित्य निजात्मनि तयान्यकान्तप्रसङ्गभीरुतया । ईषद्विहस्य मधुरैाहारैाहता दूती ।। ७२ ।। यदि मामिच्छति भूपतिरथ यच्छात चारुचारूवस्तूनि । तत् किमह कथनमास्ते बैद्यादिष्टं तथाऽभीष्टम् ।। ७३ ।। तदधीनरुपयौवनलावण्याहं सखेऽस्मि सहिम् । परमेकमस्ति गुप्तं तत्संशृणु सावधानतया ।। ७४ ।। लोके लज्जाकारिणि मर्यादासद्गणापहारिणि च । कर्मणि विधीयमानेऽमुष्मिन् विश्वोपहास: स्यात् ।। ७५ ।। स्ट्रिद्रान्वेषी द्वेषी प्रायः सर्वेऽपि सत्ववर्गोऽयम् । तस्माद्दोषासमये प्रसरति पूरे तमिस्रस्य ।। ७६ ।। स्ताकपरीवारभृता भूमिभृता मद्गृहे समेतव्यम् । येन फलेग्रहिरेतम्मनारथः सपदि जायेत ।। ७७ ।। इत्यादिमधुरवाण्या प्राण्यानन्दप्रदानकोविदया । कृत्वा प्रीतां दूतीं जगृहे तद्भपतिप्रहितम् ।। ७८ ।। गत्वा प्रसन्नवदना सदनात्तस्याः ससंभ्रमा सापि । चक्रे शक्रेण समं सानन्द नन्दभूपालम् ॥ ७२ ।। तद्वदनामृत चषकाद्रोहिण्युक्तानि तानि वचनानि । अमृतानीव निपीयोललास हृदये महीमघवा ।। ८० ।। भुङ्क्ते न चापि शेने कुरुते न हि रसिकगोष्ठिमिष्टेन । तुष्टेन चेतसा तामेवंका संस्मरम्नास्ते ॥ ८१ ।। तद्रमणलालसात्मा वासरमपि वर्षसन्निभं मनुते । तनुते रवितापादप्यधिक तापं हि विरहाऽस्याः ।। ८२ ॥ दुरिततमःश्यामायां श्यामायामथ निकामकामाय म् । श्यामायामनुरागी भागी दुर्वृत्तजातस्य ।। ८३ ।। शृङ्गाररसनिमग्नः शृङ्गारमुदारमात्मनः कृत्वा । विरलीकृतनिजपरिधिर्वसुधाधीशः कृपाणकरः । ८४ ॥
॥१८॥