________________
॥१७॥
त्वत्सौभाग्यमलङ्गुरमासीदाबि बभूव तत्सुभगे । कुसुमशरः खलु तुष्ट पुष्टः प्राकपुष्य संभारः ॥५७।। यत्वां मुक्तालतिकामिव कतुं कण्ठकन्दले नृपतिः । निर्मलतरोज्ज्वलगुणामभिवाच्छति यच्छति सुवस्तु ।। ५८ ॥ निजहस्ते कुरु तूर्ण प्रसद्य सद्यः प्रशस्तवस्तूनि । यानीह न हि सुलम्भान्यसीमसुकृतर्विना भुबने 1.५९ ॥ इति तत्समुदितवाचं वाचंयमिनीव सद्गुरोः श्रुत्वा । तत्त्वावबोधचतुरा व्यचिन्तयच्चेतसि स्पष्टम ।। ६० ।। मुग्धायन्ते विबुधा रायन्ते च तेऽपि राजानः । शिष्टा दुष्टायन्ते हहा महामोहदुर्ललितम् ।। ६१ ।। स्वाधीनः क्षितिभर्ता कर्ता न्यायानयाध्वनारपि हि । पातकिनी पुनरेषा कुशीलतादत्तसाहाय्या ॥ ६२ ।।। स्वयमन्यायासक्ता मामाघ पातयात पातकाम्भोधौ । धिग्धिग्जीवितमस्याः प्रभूतपापप्रमादिन्याः ।। ६३ ।। क्षितिपतिरयं तु तावत्तद्वशत्तिष्णुरखिलपूर्लोकः । प्रभविष्णुर्न हि तं प्रति कश्चिन्न हि चलति बलमत्र ।। ६४ ।। दद्धि रः करी किल कर्ण ध्रियते न केनचित्वबचियद्वत् । तद्वत्कोऽपि न शक्तः कुपथा नृपति निवत्तयितुम् ।। ६५ ।। जलधिर्यदि मर्यादालापी कापी प्रभुयंदा भृत्ये 1 यदि हिमरश्मिस्तीवस्तत्कः शरणं शरण्यानाम् ।। ६६ ।। एष पुनः प्रभुरस्याः पुर: स्फुरच्चारुरूपदार्वीर्यः । मत्पति रतिदूरस्थः पुनरहमेकाकिनी सदने ।। ६७ ।। कस्याने पूत्क्रियते यथा तथा शीलमुज्ज्वलं ध्रियते । प्राणान्तेऽपि न धीराः स्वशीलमालिन्यमुपयान्ति ।। ६८ ।। क्रियते कश्चिदुपायः स्वकीयसंशुद्धशीलरक्षार्थम् । वद्धितमपि हि क्षेत्र व्यर्थ रक्षापरित्यक्तम् ॥ ६९ ।। रूपथिया किमनया ययापि गतयाऽक्षिगोचरीभावम् । प्रतिपद्यते शरीरी क्षणेन खलु शीलशथिल्यम् ।। ७० ।।
१७॥