________________
उपदेश
118941
मन्त्रैरपि यन्त्रैरपि तन्त्रैरथ कार्मणैर्महाप्रगुणैः । स्ववशीकृत्य त्वरितं दासीमिव ते करिप्येऽहम् ||४३|| नरपमि दृषत्कठोरं स्ववचनरचनाम्बुना विभिद्याहम् । कुर्वे द्विधा मुधा तद्बलमबलायाः कियन्मात्रम् ॥१४४॥ इत्याख्यायादायालङ्कारस्फारहारवस्तूनि । रोहिण्यागारमसावुपेत्य सविकारमिदमूचे ||४५|| रूपं प्रतिरूपं लावण्यमगण्यमङ्गमतिचङ्गम् । रम्भागर्वारम्भापहारि सौन्दर्यमनिवार्यम् ॥४६॥ दयिते गतेऽन्यदेशं क्लेशं विरहोद्भवं कथं सहसे । सद्भोगयोगशून्यं नृजन्म वन्ध्याङ्गजप्रायम् ||४७ || लोभाभिभूतचितो वित्तोपार्जनकृते वणिग्लोकः । बम्भ्रयते पृथिव्यां न तद्गृहिण्यः सुखिन्यः स्युः ||४|| वर्णिन्यः खलु वर्ष्याः पुण्यातिशयादवाप्ततारुण्याः । अभिलषितरमणरमणाद्याः सुखमिह भुजते स्वैरम् ॥४९॥ भवतोमतिरूपवतीमिच्छति भूमिपतिः सुदति नन्दः । सर्वा अवरोधवधूरथधूय समृद्धलावण्याः ॥ ५०॥ किमिदं विफलीकुरुषे सखे सखेदेन जीवितव्येन । निजरूपयौवनश्रियमपास्य कान्तं मनः कान्तम् ||५१ ॥ धन्याऽसि त्वं तरुणीवर्गे स्वर्गेऽपि यादृशी नान्या । यद्रूपगुणावर्जितचेता नेता भुत्रः समभूत् ||५२ ॥ रूपं यस्य न तादृग् न दोबलं वैभवं न चाप्यतुलम् । न हि भोगयोगसंपन्न महत्त्वं किमपि न च सत्यम् ||१३|| कृपणेन तेन किमहो वणिजा गुणजातमुक्तदुर्मतिना । दूरस्थितेन तेन हि कः प्रतिबन्धस्तवेदानीम् ||१४|| इत्यादिकिंवदन्तीमिह निगदन्ती ह्यतीव निह्रींका। निर्भीकाऽलङ्काराद्य वस्तु समार्पयत्तस्यै ॥ ५५ ॥ न हि कश्चिदपि विपश्चित्कम मुक्त्वाम्रफलमुदारमलम् । कटुनिम्बफलास्वादनलालसतामत्र खलु भजते ।। ५६ ।।
समतिक
।।१६।।