________________
॥३६९॥
यदर्शनतोऽपि माति ।।३।। श्रीश्रेणिकस्तत्र मुनीन्द्रमेकं, प्रैक्षिप्ट शान्तं सरसीव भेकम् । वृक्षस्य मूले मृदुलं निषण्णं, दृष्ट्वाऽथ तं भूमिभुजेति 'बिन्त्रम् ।।४।। रम्याऽस्त्यहो अस्य वपुर्विभूषा, रम्यं वयो रम्पतमा मयूखाः । निःसङ्गता क्षान्तिरहो विमुक्तिः, सद्रूपमार्यस्य भवाद्विरोक्तः ।।५॥ तद्रूपसंप्रेक्षणजातचित्रः, सविस्मयोऽभूत् क्षितिपः स तत्र ! प्रदक्षिणीकृत्य यति त्रिवेल, ननाम 'पत्पङ्कज मुद्धृतेलम् ।।६।। न दूरवती न नृपस्तथाऽऽसनासन्नवर्ती धृतधर्मवासः । कृताञ्जलिः सद्विनयः पुरःस्थ:, पप्रच्छ हर्षेण गुणै दुःस्थः ॥७॥ यद्यौवने प्रवजितः किल त्वं, भो भोगकालेऽस्ति तदुत्तमत्वम् । इत्येवमुक्ते स्वमुखेन भम्भासारेण सोऽप्याह 'सचिरम्भाः ||८| भूमीपते भो अहमस्म्यनाथः, प्रवर्तते नो मम कोऽपि नाथः । यत्केनचिन्मे न कृताऽनुकम्पा, त्यक्ता मरालेन यथाऽत्र पम्पा ।।९।। एवं ब्रुवाणस्य मुनीश्वरस्य, श्रीश्रेणिकः प्राह पुनः प्रहस्य । सद्रूपवर्णादिमहर्द्धिभाजः, कथं न नाथोऽस्ति तवषिराज ।।१०।। नाथस्तव त्राणमहं भवामि, स्वं भुक्ष्व भोगादि मनोऽनुगामि । आरते तबाढय परिवारवत्त्वं, दुष्प्रापमस्तीह पुनर्नरत्वम् ।।११।। ऊचे मुनिस्त्वं प्रथम स्वनाथः, प्रवर्त से भो मगधाधिनाथ । कथं स्वयं सन् सुतरामनाथः, संपद्यसे त्वं परकीयनाथ: ।।१२।। श्रुत्वेति साधोः समभूपालः, सविस्मयो वा कुतुकेन बाल: । जीमूतवारीव नवः पुलायङ्कितो मुक्दाप्यश्रुतपूर्ववाक्यम् ।।१३॥8॥३६९।। नृपोऽवदन्मे करिणः सदश्वाः, पुराणि चान्तःपुरमस्ति विश्वा । ऐश्वर्यमाज्ञा बहुधा च भोगा, बलोत्कटा भूरितराः पुरोगाः ॥१४॥ ईदृश्यवाप्ते कमलाप्रकर्षे, प्रशान्तहृत्कामितवस्तुत। भवाम्यनाथोऽत्र कथं मृषाऽदस्त्वं भापसे हे
१ विचारितम्, २ उद्धत इला पृथ्वी जगच्चीया इति यावत् येन तत्. ३ सचिरेब जलं यस्मिन्सः, ४ सरोविशेष: