________________
सप्ततिका.
ष्यसि विसंशयम् ॥२७॥ इत्युक्ते सति सोऽवोचत् प्राणाः सत्वगत्वराः । कस्तस्कृते स्वनियमवतखण्डममाचरेत् ।।२८॥ चञ्चलंनिश्चलस्याप्तिः समलैयदि निर्मलः । प्राणैर्धर्मः समज्येत किं न प्राप्तं तदाङ्गिभिः ।।२९।। यद्रोचत्ते भवञ्चित्ते तदाचर रयान्मयि । नाहं निःस्वार्थमत्यर्थ मेतरपापं सजाम्यहो ।।३०।। ततः संहृस्य तपमुपश्लोकयति स्म तम् । विमलात्माऽसि विमल श्लाघ्योऽसि त्वं महीतले ।।३१।। त्वं सपुण्यः सकारुण्यस्त्वं च पुण्यास्पदं परम् । भवतः पाप| भीरत्वं शक्रोऽपि स्तौति यत्स्वयम् ।।३२॥ प्रतिपन्नस्वनियमप्रतिपालनतत्पर । अहो वृणु वरं तूर्णं यथा संपादयेऽखिलम् ।।३३।। विमलेन ततोऽभाणि दर्शनं ददता निजम् । कि न दत्तमहो मह्यमसमभुजविक्रम ।।३४।। अर्हद्ध में मयाऽयासे दुर्लभे भवकोटिभिः । समस्तमपि भो लब्धमतः परमिह स्वया ।।३५।। निवेश्यं स्वमनो धर्म निर्जरोत्तम धमिणि । साहाय्यं सर्वदा कार्य वार्य विघ्नकदम्बकम् ।। ३६।। तस्मिन्नतिनिरीहेऽसौ विषद्विषनाशकम् । मणि चेलाञ्चले बद्ध्वा सुर: स्वर्धाम जग्मिघान् ।।३७।। सहदेवादयः सार्थात्तेनाहूयन्त तेऽञ्जसा । पान्थव्यतिकरः सबस्तत्पुरस्तानिवेदितः ।।३८॥ तैरप्येष स्तुतः प्रीत्या ततो भ्रातृद्वयं स्वयम् । भुक्त्वाऽर्हद्गुरुसनामस्मृतिपूर्वमगात् पुरम् ।।३९|| यावत्पुरं प्रविष्टौ तौ हुप्टो तुप्टौ स्वमानसे । विसस्थुलो वणिग्वर्गः स्वापणश्चेणिमात्मनः ।। ४०।। पिदधानस्त्वरा दृष्टरताभ्यां भीरुकमानसः । नश्यनितस्ततश्चापि कान्तारे मृगयूथवत् ।।४१॥ पिधीयन्ते प्रतोलीनां द्वाराणि सुहढार्गलम् । बंभ्रमीति चमचक्रं सर्वतः समरोन्मुखम् ।।४।। विहस्तं नगरं प्रेक्ष्य पृष्टः कोऽपि नरस्ततः । ताभ्यां भद्र किमी दृक्षं व्याकुलं सकलं पुरम् ॥४३।। कर्णाभ्यर्णमुपागत्य सोऽभणत् पुरुषोत्तमः । पुरुषोत्तमवद्वाजाऽत्रास्ते गोपालशेखरः ।।४४11
॥३६४।।