________________
11३६३॥
राध विशुद्धात्मा ज्येष्ठः शश्वन्मुनेर्वच: । द्वितीयः शिथिलत्वेन न धर्म दृढ़तामधात् ।।११।। अन्यदाऽऽदाय वस्तुनि विक्रयार्थमिमौ पुरात् । चेलतुः सह सार्थेन पूर्वदेशं प्रति स्फुटम् ।।१२।। अर्थवम॑नि केनापि पान्थेनाथ समीयुपा । विमलो विमल प्रज्ञः पृष्टः पंथान मञ्जसा ।।१३।। मत्पुरस्तात्समाख्याहि सरलं वर्त्म सर्वथा । समिजलतरुमछायासलं बलनोचितम् ।।१४।। सोऽनर्थदण्ड भीरुः सन्नाहं वेद्यीत्यवीवदत् । भूयोऽध्वन्यः समाचख्यौ कुत्र ग्रामे पुरेऽथवा ।।१५।। खया गन्तव्यमाकायतदाचष्ट विशिष्टधीः । विक्रयो यत्र बस्तूनां तत्रास्माभिः प्रयास्यते ॥१६॥ पुनः पान्थस्तमूचेऽथ र स्वं पुरं समुधीएम । कुनाम से निवासो भो राजधान्या वसाम्यहम् ।।१७।। न ह्यस्माकं पुरं किञ्चिदास्ते वासोचित चिरम् । ततः स विमलं प्राह समया ते (त्वां) सभेम्यहम् ।।१८।। तेनोक्तं स्वेच्छयाऽऽगच्छ के ययं भो भवत्पुरः । पुरासनमथागत्य विमल: स्वार्थभुक्तये ।।१९।। यावत्प्रज्वालयामास ज्वलनं संज्वलद्यशाः । तावत् पथिक आख्यत्तं मे समर्पय पावकम् ।।२०।। तावत्तेनोक्तमत्रव भुव कि भो: पृथक्रिया। बह्नः समर्पणं सूत्रप्रतिषिद्धं हि तद्यथा ।।२१।। "महुमज्जमसभेसज्जथूलसत्थग्गिजंतमंताई। न कयाऽवि हु दायब्वं सद्देहिं पावभीरूहि" ॥२२॥ अन्यत्राप्यूक्त - "न ग्राह्याणि न देयानि पञ्च द्रव्याशि पण्डितः । अग्निविषं तथा शस्त्रं मद्य मांसं च पञ्चमम्" ।।२३।। ततः स | रुष्टो दुष्टात्मन् रे रे धृष्ट निकृष्ट रे । अमिष्ठ पुरस्त्वं मे ज्ञातृत्वं शापयस्यहो ।।२४।। इत्येष तं तिरस्कुर्वनिष्ठुरवंचनोत्तरैः। वपुषा वृद्धिमायासीत्तमस्तोमासितत्विषा ।।२५।। भयंकरेण व्योमात्र लग्नशीण तत्क्षणात् । देहि रे दहनं धृष्ट बाढं क्षुत्पीडितोऽस्म्यहम् ।।२६।। न दास्यसि यदाऽहीक तदा ते नास्ति जीवितम् । यमसद्मनि पान्थत्वं भजि