________________
उपदेश
||३५८।।
मन्दो विज्ञानविकलः रपर्शनेन्द्रियस्य यो निग्रहं न कुर्वीत स स्तम्बेरमवत् आत्मानं दुर्गरोधभ्वधनादिदुःखे पातयतीति sourर्थः । अथैतदर्थ समर्थकं दृष्टान्तमाह-
अस्तीह 'स्वतीहापरनरनारीसहस्ररमणीयम् । नृमणीयन्ते यत्रानेके सहिता विवेकेन ||१|| तत्र श्रीजितशत्रुः शत्रुलाभिमानः । धीः प्राज्यं ॥१॥ सकुसुममालिकावत्सुकुमाला शशधराधेदलमाला । सुकुमारिकेति राशी तस्यासीद्रूपसंपला ||३|| रमयेव रमारमणः स्मर इव रत्या शचीवर शच्या । सार्धं स्वकीयपत्न्या विलास सुखान्यसङ्खानि ॥ ४ ॥ सर्वातिशायिनीच्छा तस्याः सुकुमारदेहसंस्पर्शे । तर्तुरभूद्वाढं गाढं प्रेमानुबन्धेन |५|| क्षणमपि तथा विनासी स्थातुं शक्नोति न बहिरन्तर्वा । किं कापि जलविहीनो मीनो मुबमावहेति ||६|| अत्यन्तदासक्त्या मुक्ता चिन्ता नेन राज्यस्य । कस्य न विषव्याप्तिमेतिवैकल्याय जायेत ||७|| सचिवेरेकत्र कुतालोरीचित्यवस्तुनिष्णातैः । सवधूकः पृथिवीशः पाशैर्बद्ध्वा व्यमोचि बने ||८|| तनन्दनाय सकला राज्यसमृद्धि : प्रमोदतः प्रददे । निजसन्ततिमिव मोहात् प्रतिपालयति प्रजां सोऽपि ॥९॥ अटतोविकटाटव्यामनयोरनयोदयेन दुःखितयोः । क्वापि न सुखसामग्री मिलति स्वस्थानविच्युतयोः ||१०|| पथि गच्छन्ती व्यथया व्यासा तृपिता बभूव नृपपत्नी । गन्तुं शशाक पुरतः पतिर्न तामेकिकां मुक्त्वा ||११|| एकत्र क्वापि वने स निर्जने एवं कलश्रमश्रमुच्य । बभ्राम जलं पश्यन्त्र पुनर्लभते यथा धनं दुःस्थः ||१२|| तुष्णातुरा बराकी मैषा योषा म्रियेत जलहीना ।
१ कल्याणच्छातत्परनरनारीणां सहस्रं रमणीयमू. २ रमणीयं नाम नगरम्
सप्ततिका.
॥१३५८।।