________________
।।३५३।।
मथागात । पौरैः सहसा सा किल लोलाक्षोऽप्येष तत्रार ॥४०11 चटुलाक्षत्वात् पश्यन् प्रफुल्लदृष्ट्या मुख नृपतिपत्याः । कणमध्यानुषवदसौ राज्ञा निःसारयाञ्चक्रे ॥४१॥ निर्गच्छन्नथ काश्चिकमनीयां कामिनी स्पृशन् सधवाम् । पत्या शक्त्या प्रहतः पञ्चत्वं प्राप्य पापमनाः ।।४२।। रौद्रध्यानान्नरके तृतीय के नारकः प्रकृष्टायुः । समजनि सतोऽप्यनन्तं भवं भ्रमिप्यत्यकृतपुण्यः ।।४३।। केवलिना तद्वत्ते स्पर्शनविषये निवेदिते राज्ञः । बैराग्यादग्राहि क्षितिपेन जिनोदिता दीक्षा ॥४४॥ कृतकर्मक्षय एष प्राप्तोज्ज्वल केवल: शिवमबाप । इत्थं चक्षुर्दोषः कस्य न दुःखस्य पोषाय ।।४५।। ।। इति चक्षुर्दोपविषये लोलाक्षकथा ।
अथ रसनेन्द्रियच्याप्तिस्त्याज्योत्यत्रार्थ काव्यमाहजलम्मि मीणो रसणारसेणं, विमोहिओ नो गहिओ भएणं ।
पाबाउ पावेइ स तालुबेह, रसाणुराओ इय दुक्खगेहं ।।४९।। व्याख्या-जले सलिले मीनो मकरो रसनारसेन जिह्वारसेन विमोहितो रञ्जितमनस्कः, नो गृहीतो भयेन, एतावत्ता निर्भयः पापात् पातकतो रसज्ञादोषोद्भवात् आप्नोति स तालुनो देधस्तालुवेधरतं रसस्य रसे बाऽनुरागः स्नेहः कृतः सन इत्यमुना प्रकारेण दुःखगृहम सातहेतुः स्यात् । एतावता रसनेन्द्रियं रसलोलुभं न विधातव्यमिति काव्यार्थः ।। अत्रार्थेऽप्युदाहरणमुद्भाव्यते
अतिपथला मिथिलास्या नगरी शिथिलाऽस्ति या न दौस्थ्टोन । तस्यां बभूव राजा विमलयशाश्चन्द्र विमलयशाः