________________
उपदेश
।। ३४२।।
यामिनीया मे जवन्यां स्थापितादि
॥९९॥ तितीयां बोधयामास वैराग्याभङ्गवाग्भरः । मलिनीत्रियते किंतु निर्मल कुलमावयोः || १०० ।। यत्क्रियतेऽत्र भोः सवैराचाराः परःशता । तदङ्गमङ्गभङ्गेन सततं केन वार्यते ।। १०१ ।। कृतानि यान्यसत्कर्माण्युन्मत्तयौवने जनैः । खाट्कुर्वन्तीह तान्यन्ते शल्यवर्धकेऽधिकम् ।। १०२|| साबूदुधदिति श्रुत्वा मन्त्रिपन्याय ततः । चक्षुरुघटितं तस्या विवेकाख्यं तदुतिभिः ।। १०३ || साइव्यस्थापि स्वीयपृष्ठे जवाजवनिकान्तरे । तुर्ययामे रमारभ्या समागापवल्लभा ।। १०४ । सांन्मुक्तशयनीयेन प्रणता राजसूनुना । ततोऽवग् जीविताधीश किमनीमतम् ॥१०५॥ समयोऽयं न हि स्वामिन्नभ्युत्थानप्रणामयोः । सौवाङ्गसङ्गपी पूर्वर्व पुस्तापमपाकुरु ।। १०६ ।। antaraभो विना यद्वज्ज्योत्स्ना चन्द्रमसे बिना । हंसी मानसनिर्मुक्ता त्वां विना ह्यस्मि दुःखिनी ।। १०७ ।। निर्भीकमिति किं जल्पन्तीं तामनारतम् । स नाभिमुखमप्यस्याः पश्यत्यप्रीतवन्मनाम् ||१०८ ।। नंषा पचेषुदपद्यज्ज्वरावेशवशंवदा | उपदेशपय पानमर्हत्यस्मादुपेक्षिता ।। १०२ ।। ततः सा स्वमवज्ञातमवेत्येत्यब्रवीद्गिरम् । स्वत्सदक्षा महादक्षा न प्रतिज्ञातलोपिनः ॥ ११० ॥ यथा वासकस्यार्थे मेघः स्याद्वह्निवृष्टिभाक् । सदाक्षिष्योऽप्यभूस्तद्वरवं मदर्थेऽतिनि ठुरः ||१११|| कुमारः प्रोक्तवानेता नितान्त तान्तमानसाम् । दूतीवच प्रपद्यत्वमाहूताऽसि मयैव हि ।। ११२ ।। दुः शैल्यकर्दमालितां तप्तां मनसिजोष्मणा । अहं निर्वापयिष्यामि त्वामहो धर्मवारिणा ।।११३|| मामहो सुन्दरात्मीयवपुः सङ्गमरङ्गतः । एकश: कुरु संतुष्टां हृदयेच्छानिवर्तनात् ।। ११४।। तयेत्युक्ते कुमारस्तां स्माह विस्मेरलोचनः । भूत्वा भूवल्लभस्यास्य वल्लभा प्राणवल्लभा ॥ ११५ ॥ कथमन्याङ्गसाङ्गत्यमीह से वहसे रतिम् । न हि पङ्काकुलं हंसी
सप्ततिका.
।।३४२ ।।