________________
परस्परमनेकशः । न ते यत्प्रहृताः शस्त्रनिशितैरागर्तजवात् ॥ ११॥ तत्सर्वं स्फूजितं साधोः प्रभावस्य महोयस: । विवेद मेदिनीकान्ततनयो विनयोज्ज्वलः ||१२|| ततः समुल्लसद्भक्तिपूरपूरितहृत्सकः । समेत्य साधुमानम्य विधिना उपा विशत् ||१३|| तत्परीवारवर्गोऽपि प्रणनाम गुरोः पदम् । गुरुर्धर्माशिषा सर्वानभिनन्द्य विदावरः || १४ || जैनधर्ममterrent श्रमणः सुकृतोद्यमी । दुर्लभः प्राप्यते नेत्र नुभवो भवकोटिभिः ॥ १५ ॥ तत्रापि सत्तमा जतिर्दुष्प्रापं तत्र सत्कुलम् । कुलेऽप्यद्भुतरूपत्वं रूपेऽप्यारोग्यमुत्तमम् ||१६|| तत्रापि धर्मसामग्री सामग्र्यामपि सत्क्रिया । क्रियायामपि atre कौशल्ये सुविचारता ॥ १७॥ तत्रापि हि दयावत्वं सर्वसत्त्वेषु सर्वदा । पालनीयं सदाचारविचारचतुरात्मना ॥ १८ ॥ परप्राणापहारेण ये मन्यन्ते स्वशूरताम् । धिक्कू जन्म यौवनं तेषां जीवितव्यमपीह धिक् ||१९|| भूयांस्येनांसि सन्तीह परं प्राणातिपालजम् । पातकेषूच्यते मुख्यं मोक्षाशावासकारणम् ||२०|| सर्वेऽपि प्राणिनः स्वीयप्राणत्राणपरायणाः । त्याज्यमाना इमे प्राणैः प्राणिनः स्युः सुदुःखिताः ||२१|| सुखिनां दुःखिनां वाऽपि जीविताशा समेव हि । कथमे के विहन्यन्ते रक्ष्यन्ते च तथा परे ||२२|| जीवहत्याविधातारः फलमनुवते कटु । तेषां दुर्गतिपालः स्यादसातशत संकट: ||२३|| यद्धर्मनिछद्मोपदेशामृतपानतः । निर्वीतस्फीततृष्णातिलभे सम्यक्त्वमुज्ज्वलम ||२४|| न हि संकल्पतः स्थूलजीवघातमतः परम् । करिष्ये स्थूलमनृतं न ब्रुवे पञ्चधा मुधा ॥ २५ ॥ परस्त्रीसेवनं मांसभक्षणाद्यं सपातकम् । वर्जित तत्परीवारजनेन गुरुसाक्षिकम् || २६ ॥ प्रणिपत्य गुरुं भेजुः कुमाराद्या नरारत्वरं । स्वं स्थानं सुस्थिता धर्मे धर्मेणार्त्ता
यथा ।। २७।। अथान्यदाऽवनीनेत्रा पुत्राः पृष्टाः सुधीमता । कीदृशी शेमुषी कस्येति परीक्षां विधित्सता ||२८||
॥३३७।।