________________
दुर्लभमिह मानुष्यं तत्रापि हि निर्मलं कुलं श्रेयः । तत्रापि रूपसंपत्तस्यामपि जिनमताबाप्तिः ॥१॥ तत्रापि शीलमुज्ज्वलमुदितं मनुजेषु चापि नारिषु । तत्पालने प्रयत्नः कार्यश्चातुर्यवर्यनरैः ।।२।। शीलेन विना न जनाः शोभाविर्भावभाजनं भुवने । वेगविहिनास्तुरगास्तुङ्गा अपि रङ्गदा न स्युः ॥३॥ रविरगडलेन गामक यभा साध्यते फलभरेण । यद्वत्सलिलेन सरस्तथाङ्गिनां जन्म शीलेन ॥४॥ शोलालकृतिधारी स्फारीभवदुज्ज्वलोस्तरसुयशाः । पञ्चजने स्यान्मान्यो धन्यो नान्योऽवनौ तस्मात् ॥५॥ खोजाती प्राधान्य विशेषतः शीलभूषणस्यैव 1 सुमहत्यपि बनवीथो न निष्फला इलाध्यतामेति ॥६॥ अत्रार्थे रोहिण्या अद्रोहिण्याः कुटुम्बवर्गस्य । संशृणुत भबिकलोका अस्तोकानन्दतचरितम् ।।७।। अस्त्यत्र भरतमध्ये स्वयंव स्वर्गतुल्यमभिरामम् । पाटलिपुत्रायपुरं पुरं न तादृक् पुरो यस्य ।।८।। यत्र धनी बसति घनीभवन् जनो वर्षणेन दानस्य । श्यामीकुरुते न मुखं स मनागप्येतदाश्चर्यम् ॥२॥ यत्रोत्तुङ्गाश्चङ्गाः श्रीअर्हचैत्यराजयो रेजुः । उत्तममनोरथा इव दुरोज्झितपापकालुष्याः ॥१०॥ मित्रोद्योत विधातरि स्नेहेन विनाऽप्यहो लसद्रूपे । यस्य प्रतापदीपे पतङ्गवत् पतति रिपुवर्गः ।।११।। सञ्जनजनितानन्दो नन्दो नामास्ति तत्र भूमिपतिः । रतिपतिरिव मूत्तिधरो यः सृष्टः शंभुना प्रसन्नेन ॥१२॥ श्रेष्ठी तब धनावहनामा कामाभिरामरूपश्रीः । अथीर्जगाम दूरं यत्सदनाच्छर्वरीव रवेः ।।१३।। सश्रीकः कमलापतिरिव शिववत्स द्वषोल्लसत्तेजाः । न जनार्दनः कदाचिन्नोग्नश्चित्रं महत्तदहो ॥१४॥