________________
ज
उपदेश- उपदेशाबसानेऽथ पृष्टो राज्ञा स केवली । भगवन् कुत्र ते चौर्यवृत्तिः साधुस्थितिः क्व च ।।५।।
सप्ततिका क्व चायं केवलोद्वोधः सर्वसत्त्वसुखङ्करः । व्याजहार ततः साधू राजन्नार्यशिरोमणे ॥६६॥
तादृग्दुष्कर्मकर्ताऽहं यद्वृतः केवलश्रिया । तदेतत्साधुगीर्ल धसाम्यावस्थाफलोजितम् ॥६॥ ॥१२॥
महाहोराश्यरण्यानी विषयोद्यत्तृणाकुरा । दह्यते दहनेनेव क्षणान्सामायिकेन वै ॥६८।। सम्यक् सामायिकासेवा देवादिसुखदायिनी। सुधियां दुधियां चापि पापव्यापव्यपोहिनी ॥६९।। श्रु त्वेति हृष्टहृद्राजा बैरं निर्मूल्य मूलतः । प्रणम्य शिरसा साधुमाससाद निजं गृहम् ॥५०॥ चिरकाल वित्यो मण्डलं भव्यमण्डलम् । प्रबोध्य सिद्धिसौधानवासी जज्ञे स केसरी ॥७१।। सार्वज्ञशासनोपासनोदारफलमीदृशम् । धन्या विज्ञाय तत्सेबाहेबाकित्वं विधीयताम् ॥७२॥
॥ इति श्रीसर्वज्ञमतसेवायां प्रथमपदोदाहरणम् ।। अथ द्वितीयगाथाया: "पालिज्ज सीलं पुण सव्वकालं" इति द्वितीयपदमद्वैतात्यन्तामलशीलगुणाविर्भावकं सोदाहरणमुद्भाव्यते-पालयेच्छीलं परयोपिज्जातिनिवृत्यात्मकं । योषितस्तु परपुरुषनिषेधात्मकं । पुनरिं वारं सर्वकालं निरन्तर-1॥१२
मिति पदाक्षरगमनिका । पूर्व तावत्सर्वज्ञमतोपासनोपदेशः सूचितस्तदनु पुनः शीलं पालनीयमित्यभिहित । युक्तं हि Pd जात्यजातरूपमुद्रिकोपरि रत्नयोजनं श्रीजैनमताराधनं तावत्सर्वधर्मेभ्यः श्रेष्ठतमं । तदाराधकः श्रावकः पुण्यप्रभावकश्वे
कछीलसंपन्नः स्यात्तदातीव प्रशंसास्पदतामास्कन्दतीति तात्पर्यार्थः ।।