________________
॥१
॥
आत्मध्यानं च समता तथा निर्ममता मता । सद्यः पातकही स्याद्दीपिकेव तमःस्थितेः ॥५१॥ अर्हन्मतोपास्तिमति: श्रुतिः श्रौती श्रतिद्वये । अवद्योच्छेदिनी सद्यो वृक्षस्येव कुठारिका ।।५।। सिद्धेः सुख मसाध्यं यद्याश्च स्वःपदवीश्रियः । यच्च मानुष्यक सौख्यं तत्साम्येनैव साध्यते ॥५३।। श्रुत्वैतत्सृष्ट तुष्टात्मा भेजे वैराग्यवासनाम् । स्थिरीकृत्य निजस्वान्तं सत्त्वेषु समतामधात् ।।४।। रे चेतश्चापलं मुश्च सौहार्द भज जन्तुषु । परस्त्रीधनधान्येषु मा वह स्पृहयालुताम् ।।५५।। सर्वेषु भवभावेषु निर्ममत्वमुरीकुरु । एवं प्रध्यायतस्तस्य शुक्लध्या नकचेतसः ।।५६।। शेषरात्रिय॑तीयाय समभूद्भास्करोदयः । उत्पेदे केवल ज्ञानमज्ञानतिमिरात्यये ॥५७।। दुष्कर्मद्विरदश्रेण्या व्यपरोपणकर्मणि । केसरी केसरीवाभूत प्रभूतोद्भूतसाहसः ॥५८।। यथेह कतकक्षोदादच्छता मलिनाम्भसः । तथैव सचानवशादात्मा कालुष्यमुज्झति ।।५।। सर्वत्रान्वेषयन्नत्रान्तरे क्षितिप आगमत् । दिश्यकस्यां भटाश्चापि रे रे निघ्नन्तु तस्करम् ।।६।। इत्युच्चः पूत्कृतिपरा: प्रत्यक्षा यमकिङ्कराः । आजम्मुरथ तस्यर्षेः केवलोत्पत्तिवेदिनः ।।६।। द्वितीयस्यां दिश्यमराः खेचराः किन्नरास्तथा । चिकीर्षवस्तन्महिमामम्बरे स्वविमानगाः ॥६२।। यावत्तत्पार्श्वमासोनाः प्रमोदभरनिर्भराः । ततश्च केसरी साधुदन्ता त्या दिशः समाः ।।६३।। द्योतयन् देशनां चके स्वर्णाजस्थो मरालवत् । चञ्चच्चरणविभ्राजी जीवराजीवसन्मनाः ।।६४।।